पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३८७ )
एकोनविंशः सर्गः। ।

सौधस्य जालानि गवाक्षाः । त एव विवराणि । तैर्व्य॑लोकयत् ॥

  मर्मरैरगुरुधूपगन्धिभिर्व्य[१]क्तहेमरशनैस्तमेकतः ।
  जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः॥४१॥

 मर्मरैरिति॥ मर्मरैः संस्कारविशेषाच्छब्दायमानैः॥ “अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्" इत्यमरः ॥ अगुरुधूपगन्धिभिर्व्यक्तहेमरशनैर्लोल्याल्लक्ष्यमाणकनकमेखलागुणैर्हेमनैर्हेमन्ते भवैः ॥ “ सर्वत्राण्च तलोपश्च" इति हेमन्तशब्दादण्प्रत्ययस्तलोपश्च ॥ निवसनैरंशुकैः सुमध्यमाः स्त्रिय एकतो नितम्बैकदेश आग्रथनमोक्षयोर्निवीबन्धविस्रंसनयोर्लोलुपमासक्तं तं जह्रुराचकृषुः ॥

  अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।
  तस्य सर्वसुरतान्तरक्षमाः सा[२]क्षितां शिशिररात्रयो ययुः।।४२॥

 अर्पितेति ॥ निवाता वातरहिताः कुक्षयोऽभ्यन्तराणि येषां तेषु गर्भवेश्मसु गृहान्तर्गृहेष्वर्पिता दत्ताः स्तिमिता निवातत्वान्निश्चला दीपा एव दृष्टयो याभिस्ताः ॥ अत्रानिमिषदृष्टित्वं च गम्यते ॥ सर्वसुरतान्तरक्षमास्तापस्वेदापनोदनत्त्वाद्दीर्घकालत्त्वाच्च सर्वेषां सुरतान्तराणां सुरतभेदानां क्षमाः क्रियार्हाः शिशिररात्रयस्तस्याग्निवर्णस्य साक्षितां ययुः । विविक्तकालदेशत्वाद्यथेच्छं विजहारेत्यर्थः॥

  दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ।
  अन्वनैषु[३]रवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः॥४३॥

 दक्षिणेनेति ॥ अङ्गना दक्षिणेन पवनेन मलयानिलेन संभृतं जनितं सपल्लवं चूतकुसुमं प्रेक्ष्यावधूतविग्रहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः । तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः ।।

  ताः[४] स्वमङ्कमधिरोप्य दोलया प्रेङ्ख[५]यन्परिजना[६]पविद्धया।
  मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः॥४४॥

 ता इति । ता अङ्गनाः स्वमङ्कं स्वकीयमुत्सङ्गमधिरोप्य परिजनेनापविद्धया

संप्रेषितया दोलया मुक्तरज्जु त्यक्तदोलासूत्रं यथा तथा प्रेङ्खयंश्चालयन्भयच्छलात्पतनभयमिषाद्बाहुभिरङ्गनाभुजैर्निबिडं कण्ठबन्धनमवाप प्राप । स्वयंग्रहाश्लेषसुखमन्वभूदित्यर्थः॥


  1. त्यक्त.
  2. साक्षताम् ; प्रेक्ष्यताम्.
  3. अवकीर्ण.
  4. काश्चित्.
  5. प्रेषयम् ; प्रैषयन्.
  6. प्रवृत्तया; प्रबद्धया..