पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३८६ )
रघुवंशे

नयं मिथो रहसि स्त्रीषु नर्तकीषूपधाय निधाय दर्शयन् । स मित्रसंनिधौ सहचरसमक्षं प्रयोगेऽभिनये निपुणैः कृतिभिः प्रयोक्तृभिरभिनयार्थप्रकाशकैर्नाटयाचार्यैः सह संजघर्ष संघर्षं कृतवान् ॥ संघर्षः पराभिभवेच्छा ॥ इतः प्रभृति तस्य कृत्रिमाद्रिषु विरचितविहारप्रकारमाह-

  अं[१]सलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसागरागिणः ।
  प्रावृषि प्रमदबर्हिणेष्वभूत्कृत्रिमादिषु विहारवि[२]भ्रमः ॥ ३७॥

 अंसेति ॥ प्रावृष्यंसलम्बिन्यः कुटजानामर्जुनानां ककुभानां च स्रजो यस्य तस्य । नीपानां कदम्बकुसुमानां रजसाङ्गरागिणोऽङ्गरागवतस्तस्यानिवर्णस्य प्रमदबर्हिणेषून्मत्तमयूरेषु कृत्रिमाद्रिषु विहार एव विभ्रमो विलासोऽभूदभवत् ॥

  विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे ।
  आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ ३८॥

 विग्रहादिति ॥ प्रावृषीत्यनुषज्यते । सोऽग्निवर्णो विग्रहात्प्रणयकलहाच्छयने पराङ्मुखीरबला अनुनेतुं न तत्वरे त्वरितवान् । किंतु घनशब्देन धनगर्जितेन विक्लवाश्चकिता अतएव विवृत्य स्वयमेवाभिमुखीभूय भुजान्तरं विशतीः प्रविशन्तीः॥ "आच्छीनद्योर्नुम्" इति नुम्विकल्पः ॥ ता अबला आचकाङ्क्ष । खयंग्रहादेव सांमुख्यमैच्छदित्यर्थः॥

  कार्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः ।
  अन्वभुङ्क्त सुरतश्र[३]मापहां मेघमुक्तवि[४]शदां स च[५]न्द्रिकाम् ॥३९॥

 कार्तिकीष्विति ॥ कार्तिकस्येमाः कार्तिक्यः ॥ “ तस्येदम्" इत्यण् ॥ तासु यामिनीषु निशासु । शरद्रात्रिष्वित्यर्थः । सवितानान्युपरिवस्त्रावृतानि हर्म्याणि भजतीति सवितानहर्म्यभाक् ॥ भजेर्ण्विप्रत्ययः॥ हिमवारणार्थं सवितानमुक्तम् । ललिताङ्गनासखः सोऽग्निवर्णः सुरतश्रमापहां मेघमुक्ता चासौ विशदा च ताम् ॥ बहुलग्रहणात्सविशेषणसमासः ॥ चन्द्रिकामन्वभुङ्क्त ॥

  सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् ।
  स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥४०॥

 सैकतमिति ॥ किंच । हंसा एव मेखला यस्य तत्सैकतं पुलिनं श्रोणिबिम्बमिव । विवृण्वतीम् । अतएव स्वप्रियाविलसितान्यनुकरोतीवि तद्विषां सरयूम् ।


  1. अंसलग्न.
  2. संभ्रमः.
  3. क्लमापहाम्: क्लमापहा:-
  4. विशदाः.
  5. चन्द्रिका..