संगमायेति ॥ संगमाय सुरतार्थं निशि गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी । तं चारदूतिकथितम् । चरन्तीति चारा गूढचारिण्यः ॥ “ज्वलिति कसन्तेभ्यो णः" इति णप्रत्ययः ॥ चाराश्च ता दूत्यश्च चारदूतयः । ताभिः कथितं निवेदितं तमग्निवर्णमङ्गनाः पुरोऽग्रे गताः । अवरुद्धमार्गाः सत्य इत्यर्थः । हे कामुक, तमसा वृतो गूढः सन्कुतो वञ्चयिष्यसीति । उपालभ्येति शेषः । चकृषुः ॥ स्ववासं निन्युरित्यर्थः॥
योषितामिति ॥ उडुपतेरिन्दोरर्चिषां भासामिव ॥ “ज्वाला भासो न पुंस्यर्चिः" इत्यमरः ॥ योषितां स्पर्शनिर्वृतिं स्पर्शसुखमवाप्नुवन् । किंच । रात्रिषु जागरपरः । दिवा दिवसेषु शेते स्वपितीति दिवाशयः ॥ " अधिकरणे शेतेः " इत्यच्प्रत्ययः ॥ असावग्निवर्णः कुमुदाकरस्योपमा साम्यमारुरोह प्राप ॥
वेणुनेति ॥ दशनैः पीडिताधरा दष्टोष्ठा: । नखपदैर्नखक्षतैरङ्कितोरवश्चिह्नितोत्सङ्गाः । व्रणिताधरोरुत्वादक्षमा इत्यर्थः । तथापि वेणुना वीणया चेत्युभयेन । अधरोरुपीडाकारिणेत्यर्थः । वेजिताः पीडिताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यो गायिकाः ॥ “कर्मण्यण्" इत्यण् । “टिड्ढाणञ्-" इत्यादिना ङीप् ॥ तं विजिह्मनयनाः कुटिलदृष्टयः सत्यः । स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन् । तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ।।
अङ्गेति ॥ अङ्ग हस्तादि । सत्त्वमन्तःकरणम् । वचनं गेयं चाश्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम् । आङ्गिकसात्त्विकवाचिकरूपेण त्रिविधमित्यर्थः॥ यथाह भरतः-“ सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः" इति ॥ नृत्यमभि-