पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३८४ )
रघुवंशे

न्धनं यस्मिंस्तत् । अग्रपादयोः स्वकीययोर्न्यस्ते पादतले यस्मिंस्तत् । निशात्यये विसर्गो विसृज्य गमनं तत्र यच्चुम्बनं तत्प्रार्थयन्त ॥ "दुह्याच्-" इत्यादिना द्विकर्मकत्वम् । अत्र गोनर्दीयः-"रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः" इति ॥

  प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् ।
  पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम्॥३०॥

 प्रेक्ष्येति ॥ युवा सोऽग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशक्रशोभिनं दर्पणतलस्थं दर्पणसंक्रान्तमात्मनो राजवेषं प्रेक्ष्य तथा न पिप्रिये न तुतोष यथा व्यक्तलक्ष्म प्रकटचिह्नं परिभोगमण्डनं प्रेक्ष्य पिप्रिये ॥

  मित्रकृत्यम[१]पदिश्य पा[२]र्श्वतः प्रस्थितं तमनवस्थितं प्रियाः।
  वि[३]द्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥३१॥

 मित्रेति ॥ मित्रकृत्यं सुहृत्कार्यमपदिश्य व्याजीकृत्य पार्श्वत: प्रस्थितमन्यतो गन्तुमुद्युक्तमनवस्थितमवस्थातुमक्षमं तमग्निवर्णं प्रिया हे शठ हे गूढविप्रियकारिन्॥ "गूढविप्रियकृच्छठः" इति दशरूपके ॥ तव पलायनस्य छलान्यञ्जसा तत्त्वतः॥ "तत्त्वे त्वद्धाञ्जसा द्वयम्" इसमरः ॥ विद्म जानीम ॥ " विदो लटो वा " इति वैकल्पिको मादेशः ॥ इति । उक्त्वेति शेषः । कचग्रहैः केशाकर्षणै रुरुधुः॥ अत्र गोनर्दीय:- " ऋतुस्नाताभिगमने मित्रकार्ये तथापदि । त्रिष्वेतेषु प्रियतमः क्षन्तव्यो वारगम्यया" इति । विरक्तलक्षणप्रस्तावे वात्स्यायनः - " मित्रकृत्यं चापदिश्यान्यत्र शेते" इति ॥

  तस्य निर्दय[४]रतिश्रमालसाः कण्ठसूत्रम[५]पदिश्य योषितः।
  अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तच[६]न्दनम् ॥ ३२ ॥

 तस्येति ॥ निर्दयरतिश्रमेणालसा निश्चेष्टा योषितः कण्ठसूत्रमालिङ्गनविशेषमपदिश्य व्याजीकृत्य पीवरस्तनाभ्यां विलुप्तचन्दनं प्रमृष्टाङ्गरागं तस्याग्निवर्णस्य बृहद्भुजान्तरमध्यशेरत वक्षःस्थले शेरते स्म ॥ कण्ठसूत्रलक्षणं तु - " यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगूहात् । परिश्रमार्थं शनकैर्विदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः" ॥ इदमेव रतिरहस्ये स्तनालिङ्गनमित्युक्तम् । तथा च- "उरसि कमितुरुच्चैरादिशन्ती वराङ्गी स्तनयुगमुपधत्ते यत्स्तनालिङ्गनं तत्" इति।।

  संगमाय निशि गूढचारिणं चारदूतिकथितं पु[७]रोगताः ।
  वञ्चयिष्यसि कु[८]तस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः।। ३३ ॥


  1. उपदिश्य.
  2. पार्थिवम्.
  3. विद्यते.
  4. निर्दयरतश्रमालसाः.
  5. अपविध्य.
  6. कु्ङ्मम्.
  7. पुरोगमाः.
  8. न नः.