पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३८९ )
एकोनविंशः सर्गः। ।

 दृष्टेति ॥ भिषजा वैद्यानामनाश्रवो वचसि न स्थितः ॥ “वचने स्थित आश्रवः"इत्यमरः ॥ अविधेय इत्यर्थः । स दृष्टदोषमपि । रोगजननादिति शेषः । तत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत् । तथाहि । इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते । यदि वार्येतेति शेषः । दुस्त्यजाः खलु विषया इत्यर्थः ॥

  तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृ[१]दुस्वना।
  रा[२]जयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥५०॥

 तस्येति ॥ तस्य राज्ञः पाण्डुवदना । अल्पभूषणा परिमिताभरणा । सावलम्बं दासादिहस्तावलम्बसहितं गमनं यस्यां सा सावलम्बगमना । मृदुस्वना हीनस्वरा । राज्ञः सोमस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । तेन या परिहानिः क्षीणावस्था सा । कामयते विषयानिच्छति कामयानः॥ केमर्णिङन्ताच्छानच् । “अनित्यमागमशासनम्" इति मुमागमाभावः। एतदेवाभिप्रेत्योक्तं वामनेनापि-"कामयान शब्दः सिद्धोऽनादिश्च' इति ॥ तस्य समवस्थया कामुकावस्थया तुलां साम्यमाययो प्राप । कालकृतो विशेषोऽवस्था ॥"विशेषः कालिकोऽवस्था" इत्यमरः ॥

  व्योम पश्चिमकलास्थि[३]तेन्दु वा पङ्कशेषमिव धर्मपल्वलम् ।
  राज्ञि तत्कुलमभूक्षयातुरे वामनार्चिखि दीपभाजनम् ॥ ५॥

 व्योमेति ॥ राज्ञिक्षयातुरे सति तत्कुलं रघुकुलं पश्चिमकलायां स्थित इन्दुर्यस्मिंस्तत्कलावशिष्टेन्दु व्योम वा व्योमेव ॥ वाशब्द इवार्थे । यथाह दण्डी-“इववद्वायथाशब्दौ” इति ॥ पङ्कशेषं घर्मपल्वलमिव । वामनार्चिरल्पशिखं दीपभाजनं दीपपात्रमिवाभूत् ॥

  बा[४]ढमेष[५] दिवसेषु पार्थिवः कर्म साधयति पु[६]त्रजन्मने ।
  इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥५२॥

 बाढमिति ॥ बाढं सत्यमेष पार्थिवो दिवसेषु पुत्रजन्मने पुत्रोदयार्थं कर्म जपादिकं साधयति । इत्येवमदर्शितरुजो निगृहितरोगाः सन्तोऽस्य राज्ञो मन्त्रिणोऽघशङ्किनीर्व्यसनशङ्किनीः प्रजाः शश्वदूचुः॥

  स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् ।
  वैद्ययत्नपरिभाविनं गदं न[७] प्रदीप इव वायुमत्यगात् ॥ ५३ ॥


  1. मृदुस्वनी
  2. यक्ष्मणात्मपरिहानिः; यक्ष्मणापि परिहानिः.
  3. स्थितेन्दुवत्; स्थितेन्दुमत्.
  4. गूढम्.
  5. एषु.
  6. पुत्रसाधने.
  7. प्राप्य दीपः.