पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३८० )
रघुवंशे

  स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो ह[१]रन्मनः ।
  नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्व[२]लज्जयत् ॥ १४ ॥

 स इति ॥ कृती कुशलः स्वयं प्रहतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि च यस्य स तथोक्तो मनो हरन् । नर्तकीनामिति शेषः । सोऽग्निवर्णोऽभिनयातिलङ्घिनीः । अभिनयेषु स्खलन्तीरित्यर्थः। नर्तकीविलासिनीः॥ शिल्पिनि ष्वुन्" इति वुन्प्रययः । “षिद्गौरादिभ्यश्च" इति ङीष् ॥ "नर्तकीलासिके समे" इत्यमरः ॥ गुरुषु नाट्याचार्येषु पार्श्ववर्तिषु समीपस्थेषु सत्स्वेवालज्जयल्लज्जामगमयत् ।।

  चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् ।
  प्रेमदत्तवद[३]नानिलः पिबन्न[४]त्यजीवदमरालकेश्वरौ ॥१५॥

 चार्विति ॥ किंच । चारु सुन्दरं नृत्यविगमे लास्यावसाने परिश्रमावर्तनप्रयासात्स्वेदेन भिन्नतिलकं विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रवर्तितमुखमारुतः पिबन् । अमराणामलकायाश्चेश्वराविन्द्रकुबेरावत्यजीवदतिक्रम्याजीवत् । ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः ॥ इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति भावः॥

  तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः।
  वल्लभाभिरुपसृत्य चक्रिरे सा[५]मिभुक्तविषयाः समागमाः ॥१६॥

तस्येति ॥ उपसृत्यान्यत्र गत्वा नवेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रियार्थेषु सङ्गिन आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे । यथेष्टं भुक्तश्चेत्तर्ह्ययं निस्पृहः सन्नस्मत्समीपं नायास्यतीति भावः ॥ अत्र गोनर्दीयः-“ संधिर्द्विविधः । सावरणः प्रकाशश्च । सावरणो भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि" इति ॥ " इतः स्वयमुपसृत्य विशेषार्थं तत्र स्थितोऽनुपजापं स्वयं संधेयः" इति वात्स्यायनः ॥ अन्यत्र गतं कथंचित्संधाय पुनरनुपगमायार्धोपभोगेनानिवृत्तवृष्णं चक्रुरित्यर्थः ।।

  अङ्गलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
  मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः॥१७॥

अङ्गुलीति ॥ सोऽग्निवर्णः प्रणयिनीः प्रेयसीर्वञ्चयन्नन्यत्र गच्छन्नङ्गुल्यः किस-


  1. अहरत्.
  2. अमज्जयत्.
  3. वदनानिलम्.
  4. अन्वजीवत्; सोऽन्वजीवत्.
  5. साभिमुक्तविषया:.