पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३७९ )
एकोनविंशः सर्गः। ।

  तत्र सेकहृतलो[१]चनाञ्जनैर्धौतरागपरिपाटलाधरैः ।
  अङ्गनास्तमधिकं व्य[२]लोभयन्नर्पितप्र[३]कृतकान्तिभिर्मुखैः ॥१०॥

 तत्रेति ॥ तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः। रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादि । रागस्य परिपाटलोऽङ्गगुणः ॥ “गुणे शुक्लादयः पुंसि" इत्यमरः ॥ धौतो रागपरिपाटलो येषां ते तथोक्ता अधरा येषां तैः। निवृत्तसांक्रमिकरागैरित्यर्थः । अतएवार्पितप्रकृतकान्तिभिः। अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः । एवंभूतैर्मुखैस्तमग्निवर्णमधिकं व्यलोभयन्प्रलोभितवत्यः ॥

  घ्राणकान्तमधुगन्धक[४]र्षिणीः पानभूमिरचनाः प्रि[५]यासखः ।
  अभ्यपद्यत स वा[६]सितासखः पुष्पिताः कमलिनीरिव द्विपः॥११॥

 घ्राणेति ॥ प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीमनोहारिणीः। रच्यन्त इति रचनाः । पानभूमय एव रचनाः । रचिता पानभूमय इत्यर्थः । वासितासखः करिणीसहचरः ॥ “वासिता स्त्रीकरिण्योश्च" इत्यमरः ॥ द्विपः पुष्पिता: कमलिनीरिव । अभ्यपद्यताभिगतः ॥

  सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः।
  ताभिरप्युपहृतं मुखासवं सोऽपिबद्धकुलतुल्यदोह[७]दः॥ १२ ॥

 सातिरेकेति ॥ अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासवमभिलेषुः । बकुलेन तुल्यदोहदस्तुल्याभिलाषः ॥ "अथ दोहदम् । इच्छाकाङ्क्षा स्पृहेहा तृट्" इत्यमरः ॥ बकुलद्रुमस्याङ्गनामद्यार्थित्वात्तुल्याभिलाषत्वम् ॥ सोऽपि ताभिरङ्गनाभिरुपहृतं दत्तं मुखासवमपिबत् ॥

  अङ्कमङ्कपरिवर्तनोचिते तस्यनिन्यतुरशून्यतामुभे।
  वल्लकी च हृदयंगमस्व[८]ना व[९]ल्गुवागपि च वामलोचना ॥१३॥

 अङ्कमिति ॥ अङ्कपरिवर्तनोचिते उत्सङ्गविहारार्हे उभे तस्याग्निवर्णस्याङ्कमशून्यतां पूर्णतां निन्यतुः ॥ के उभे । हृदयंगमस्वना मनोहरध्वनिर्वल्लकी वीणा च । वल्गुवाङ्मधुरभाषिणी वामलोचना कामिन्यपि च । हृदयं गच्छतीति हृदयंगमः ॥ खच्प्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः ॥ अङ्काधिरोपितयोर्वीणावामाक्ष्योर्वाद्यगीताभ्यामरंस्तेत्यर्थः॥


  1. लोचनाञ्जनम्.
  2. व्यलम्भयन्.
  3. प्रकृति.
  4. वर्षिणी:; वाहिनीः.
  5. प्रियावृतः.
  6. हस्तिनीसखः.
  7. दोहदम्.
  8. स्वनाम्,
  9. मञ्जुवाक्.