पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३७८ )
रघुवंशे

  कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
  ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः॥५॥

 कामिनीति ॥ कामिनीसहचरस्य कामिनस्तस्य मृदङ्गनादिषु मृदङ्गनादवत्सु वेश्मस्वधिकर्ध्दिः पूर्वस्मादधिकसंभार उत्तर उत्सवः । ऋद्धिमन्तं साधनसंपन्नं पूर्वमुत्सवमपोहदपानुदत् ॥ उत्तरमुत्तरमधिका तस्योत्सवपरंपरा वृत्तेत्यर्थः ॥

  इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् ।
  [१]न्तरेव विहरन्दिवानिशं न व्यपैक्षत स[२]मुत्सुकाः प्रजाः॥६॥

इन्द्रियेति ॥ इन्द्रियार्थपरिशून्यं शब्दादिविषयरहितमेकमपि क्षणान्तरं क्षणभेदं सोढुमक्षमोऽशक्तः सोऽग्निवर्णो दिवानिशमन्तरेव विहरन्समुत्सुका दर्शनाकाङ्क्षिणीः प्रजा न व्यपैक्षत नापेक्षितवान् ॥

  गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
  तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥७॥

 गौरवादिति ॥ जातु कदाचिन्मन्त्रिणां गौरवाद्गुरुत्वाद्धेतोः। मन्त्रिवचनानुरोधादित्यर्थः । प्रकृतिभिः प्रजाभिः काङ्क्षितं यदपि दर्शनं ददौ तदपि गवाक्षविवरावलम्बिना केवलेन चरणेन चरणमात्रेण कल्पितं संपादितम् । न तु मुखावलोकनप्रदानेनेत्यर्थः॥

  तं कृतप्रणतयोऽनुजीविनः को[३]मलात्मनखरागरूषितम् ।
  भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ ८॥

 तमिति॥कोमलेन मृदुलेनात्मनखानां रागेणारुण्येन रूषितं छुरितम् । अतएव नवदिवाकरातपेन स्पृष्टं व्याप्तं यत्पङ्कजं तस्य तुलां साम्यतामधिरोहति प्राप्नोतीति तुलाधिरोहणम्। तं चरणमनुजीविनः कृतप्रणतयः कृतनमस्काराः सन्तो भेजिरे सिषेविरे॥

  यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
  गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः॥९॥

 यौवनेति ॥ विगाढमन्मथ: प्रौढमदनः सोऽग्निवर्णो यौवनेन हेतुनोन्नतानां

विलासिनीस्तनानां क्षोभेणाघातेन लोलानि चञ्चलानि कमलानि यासां ताः। तदम्बुभिस्तासां दीर्घिकाणामम्बुभिर्गूढान्यन्तरितानि मोहनगृहाणि सुरतभवनानि यासु ताश्च दीर्घिका व्यगाहत । स्त्रीभिः सह दीर्घिकासु विजहारेत्यर्थः।


  1. अन्तरे च; अन्तरेषु.
  2. समुत्सवाः.
  3. केवलाशुनखरागरूषितम् ; कोमलांशुनखरागभूषितम्.