पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३७७ )
एकोनविंशः सर्गः। ।

एकोनविंशः सर्गः।

    मनसो मम संसारवन्धमुच्छेत्तुमिच्छतः ।
    रामचन्द्रपदाम्भोजयुगलं निबिडायताम् ।।

  अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् ।
  शिश्रिये श्रु[१]तवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥१॥

 अग्निवर्णमिति ॥ श्रुतवतां श्रुतसंपन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्द्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ॥

  तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः।
  सौधवासमुटजेन वि[२]स्मृतः संचिकाय फलनिःस्पृहस्तपः ॥२॥

 तत्रेति ॥ तत्र नैमिषे तीर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्णशालया सौधवासं विस्मृतो विस्मृतवान्सः ॥ कर्तरि क्तः ॥ फले स्वर्गादिफले निःस्पृहस्तपः संचिकाय संचितवान् ।

  लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी ।
  भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥३॥

 लब्धेति ॥ तत्सुतः सुदर्शनपुत्रोऽग्निवर्णो लब्धपालनविधौ लब्धस्य राज्यस्य पालनकर्मणि खेदं नाप । अक्लेशेनापालयदित्यर्थः॥ कुतः । हि यस्माद्भुजनिर्जितद्विषा गुरुणा पित्रा मेदिन्यस्याग्निवर्णस्य भोक्तुमेव कल्पिता । प्रसाधयितुं न। प्रसाधनं कण्टकशोधनम् ॥ अलंकृतिर्धन्यन्यते ॥ तथा च । यथालंकृता युवतिः केवलमुपभुज्यते तद्वदिति भावः॥

  सोऽधिकारमं[३]भिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः।
  संनि[४]वेश्य सचिवेष्वतःपरं स्त्रीविधेयनवयौवनोऽभवत् ॥ ४॥

 स इति ॥ अभिकः कामुकः॥ “अनुकाभिकाभीकः कमिता" इति निपातः ॥ "कम्रः कामयिताभीकः कमनः कामनोऽभिकः" इत्यमरः ॥ सोऽग्निवर्णः कुलोचितमधिकारं प्रजापालनं काश्चन समाः कतिचिद्वत्सरान्स्वयमवर्तयदकरोत् ॥ अतः

परं सचिवेषु संनिवेश्य निधाय स्त्रीविधेयं स्त्र्यधीनं नवं यौवनं यस्य सोऽभवत् । स्त्र्यासक्तोऽभूदित्यर्थः॥


  1. सुतवताम्.
  2. विस्मरन्.
  3. अधिपः.
  4. तं निवेश्य.