पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३८१ )
एकोनविंशः सर्गः। ।

लयानि तेषामग्राणि तैस्तर्जनं भर्त्सनं भ्रूविभङ्गेन भ्रूभेदेन कुटिलं वक्रं वीक्षितं वीक्षणं चासकृन्मेखलाभिर्बन्धनं चावाप । अपराधिनो दण्ड्या इति भावः॥

  तेन दूतिवि[१]दितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
  शुश्रुवे प्रियजनस्य कातरं विप्रलम्भप[२]रिशङ्किनो वचः॥ १८॥

 तेनेति ॥ सुरतस्य वारो वासरः । तस्य रात्रिषु दूतीनां विदितं यथा तथा पृष्ठतः प्रियजनस्य पश्चाद्भागे निषेदुषा तेनाग्निवर्णेन विप्रलम्भपरिशङ्किनो विरहशङ्किनः। प्रियश्चासौ जनश्च प्रियजनः । तस्य कातरं वचः प्रियानयनेन मां पाहीत्येवमादि दीनवचनं शुश्रुवे ॥

  लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
  वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः॥ १९॥

 लौल्यमिति ॥ गृहिणीपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीपु वेश्यास्वसुलभासु दुर्लभामु सतीषु लौल्यमौत्सुक्यमेत्य प्राप्य । अङ्गुल्योः क्षरणेन स्वेदनेन सन्नवर्तिको विगलितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्पुरालिखन्कथंचिद्वर्तते स्मावर्तत ॥

  प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितम् ।
  निन्युरुत्सवविधिच्छलेन तं देव्य उ[३]ज्झितरुषः कृतार्थताम् ॥२०॥

 प्रेमेति ॥ प्रेम्णा स्वविषयेण प्रियस्यानुरागेण हेतुना गर्विते विपक्षे सपत्नजने मत्सराद्वैरादायतात्प्रवृद्धान्मदनाच्च हेतोर्देव्यो राज्ञ्य उज्झितरुषस्त्यक्तरोषाः सत्यस्तं महीक्षितमुत्सवविधिच्छलेन महोत्सवकर्मव्याजेन । कृतोऽर्थः प्रयोजनं येन स कृतार्थः । तस्य भावस्तत्तां निन्युः । मदनमहोत्सवव्याजान्नीतेन तेन स्वमनोरथं कारयामासुरित्यर्थः॥

  प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः।
  प्राञ्जलिःप्रणयिनीःप्रसादयन्सोऽदुनोत्प्र[४]णयमन्थरः पुनः॥२१॥

 प्रातरिति ॥ सोऽग्निवर्णः प्रातरेत्यागत्य परिभोगशोभिना दर्शनेन हेतुना ॥ दृशेर्ण्यन्ताल्ल्युट् ॥ कृता खण्डनव्यथा यासां तास्तथोक्ताः । खण्डिता इयर्थः ॥

तदुक्तम्-"ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता" इति ॥ प्रणयिनी प्रञ्जलिः प्रसादयंस्तथापि प्रणयमन्थरः प्रणयेन नर्तकीगतेन मन्थरोऽलसः । अत्र शिथिलप्रयत्नः सन्नित्यर्थः । पुनरदुनोत्पर्यतापयत् ॥


  1. कथितम.
  2. परिशङ्कितम्.
  3. उज्झितरुषा.
  4. ग्रहणमन्थरः, द्विगुणमन्थरः.