न्धिन: कपोलयोर्लोलावुभौ काकपक्षौ यस्य तस्मादाननादुच्चरितो विवादो वचनमर्णवानां वेलास्वपि न चस्खाल। शिशोरपि तस्याज्ञाभङ्गो नासीदित्यर्थः ॥ चपलसंसर्गेऽपि महान्तो न चलन्तीति ध्वनिः॥ उभयकाकपक्षादित्यत्र-"वृत्तिविषये उभयपुत्र इतिवदुभशब्दस्थान उभयशब्दप्रयोगः" इत्युक्तं प्राक् ॥
नि[१]र्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥४४॥
निवृत्तेति ॥ निर्वृत्ता जाम्बूनदपट्टशोभा यस्य तस्मिन्कृतकनकपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः स्मितमुखः स राजारिसुन्दरीणां मुखानि तेनैव तिलकेनैव शून्यानि चकार । अखिलमपि शत्रुवर्गमवधीदिति भावः॥
शिरीषेति ॥ शिरीषपुष्पाधिकसौकुमार्यः । कोमलाङ्ग इत्यर्थः । अतएव स राजा भूषणेनापि खेदं श्रमं यायाद्गच्छेत् । एवंभूतः स नितान्तगुर्वीमपि धरित्र्या धुरं भुवो भारमनुभावात्सामर्थ्याद्विभरांबभूब बभार ॥ “भीह्री भृहुवां श्लुवच्च" इति विकल्पादाम्प्रत्ययः॥
न्यस्तेति ॥ अक्षरभूमिकायामक्षरलेखनस्थले न्यस्ताक्षरां रचिताक्षरपङ्क्तिरेखान्यासां लिपिं पञ्चाशद्वर्णात्मिकां मातृकां कार्त्स्न्येन यावन्न गृह्णाति स सुदर्शनस्तावच्छ्रुतवृद्धयोगाद्विद्यावृद्धसंसर्गात्सर्वाणि दण्डनीतेर्दण्डशास्त्रस्य फलान्युपायुङ्क्तान्वभूव । प्रागेव बद्धफलस्य तस्य पश्चादभ्यस्यमानं शास्त्रं संवादार्थमिवाभवदित्यर्थः॥
उरस्यपर्याप्तनिवेशभा<refभागम्; भोगात्.></ref>गा प्रौढीभविष्यन्तमु[८]दीक्षमाणा।
संजातलज्जेव तमातपत्रच्छायाछलेनोपजुगूह लक्ष्मीः॥४७॥
उरसीति ॥ उरस्यपर्याप्तो निवेशभागो निवासावकाशो यस्याः सा। अतएव प्रौढीभविष्यन्तं वर्धिष्यमाणमुदीक्षमाणा प्रौढवपुष्मान्भविष्यतीति प्रतीक्षमाणा लक्ष्मीः संजातलज्जेव साक्षादालिङ्गितुं लज्जितेव तं सुदर्शनमातपत्रच्छायाछलेनोप-