पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३७३ )
अष्टादशः सर्गः ।

  तं राजवीथ्यामधिहस्ति या[१]न्तमाधोरणालम्बितम[२]ग्र्यवेशम् ।
  षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण॥ ३९॥

 तमिति ॥राजवीथ्यां राजमार्गेऽधिहस्ति हस्तिनि ॥ विभक्त्यर्थेऽव्ययीभावः॥ यान्तं गच्छन्तम् । हस्तिनमारुह्य गच्छन्तमित्यर्थः । आधोरणालम्बितं शिशुत्वात्सादिना गृहीतमग्र्यवेशमुदारनेपथ्यं षड्वर्षाणि भूतः षड्वर्ष: ॥ "तद्धितार्थ-" इत्यादिना समासः । तमधीष्टो भृतो भूतो भावीत्यधिकारे " चित्तवति नित्यम्" इति तद्धितस्य लुक् ॥ ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः ॥ " ईषदसमाप्तौ-" इत्यादिना देशीयर्प्रत्ययः ॥ तं षड्वर्षदेशीयमपि बालमपि तं सुदर्शनं पौराः प्रभुत्वात्पितृगौरवेण प्रैक्षन्त । पितरि यादृग्गौरवं तादृशेनैव ददृशुरित्यर्थः ॥

  कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।
  तेजोमहिम्ना पुनरा[३]वृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥४०॥

 काममिति॥स सुदर्शनः पैतृकस्य सिंहासनस्य कामं सम्यक्प्रतिपूरणाय नाकल्पत । बालत्वाद्व्याप्तुं न पर्याप्त इत्यर्थः॥चामीकरपिञ्जरेण कनकगौरेण तेजोमहिम्ना पुनस्तेजःसंपदा त्ववृतात्मा विस्तारितदेहः संस्तत्सिंहासनं व्याप व्याप्तवान् ॥

  तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् ।
  सा[४]लक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ॥११॥

 तस्मादिति॥ तस्मात्सिंहासनादपादानादधोऽधोदेशं प्रति किंचिदिवावतीर्णावीषल्लम्बौ तपनीयपीठं काञ्चनपीठमसंस्पृशन्तावल्पकत्वादव्याप्तौ सालक्तकौ लाक्षारसावसिक्तावस्य सुदर्शनस्य पादौ भूपतयः प्रसिद्धरुन्नतैर्मौलिभिर्मुकुटैर्ववन्दिरेप्रणेमुः।।

  मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या ।
  शब्दो महाराज इति प्रे[५]तीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि॥४२॥

 मणाविति ॥ अल्पप्रमाणेऽपि मणाविन्द्रनीले प्रभावात्तेजिष्ठत्वाद्धेतोर्महानील इति शब्दो यथा मिथ्या निरर्थको न तथैवार्भके शिशावपि तस्मिन्सुदर्शने प्रतीतः प्रसिद्धो महाराज इति शब्दो न मिथ्या युयुजे ॥

  पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् ।
  तस्याननादुच्चरितो वि[६]वादश्र्वस्खाल वेलास्वपि नार्णवानाम्।।४३॥

 पर्यन्तेति ॥ पर्यन्तयोः पार्श्वयो: संचारिते चामरे यस्य तस्य तस्य बालस्य संव-


  1. यन्तम्.
  2. पूर्वकायम् ; मध्यदेशम्.
  3. आवितानम् ; आ वितानात्.
  4. सकुङ्कुमौ.
  5. प्रयुक्त:; प्रसिद्धः
  6. अपि वादः.