तत इति ।। ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः । तदात्मज इत्यर्थः । ध्रुवेणौत्तानपादिनोपमेयः ॥ "ध्रुव औत्तानपादिः स्यात्" इत्यमरः ॥ ध्रुवसंधिरुर्वीं प्रपेदे । ज्यायसि श्रेष्ठे सत्यसंधे सत्यमतिज्ञे यस्मिन्ध्रुवसंधौ संनमताम् । अनुद्धतानामित्यर्थः । अरीणां संधिर्ध्रुव: स्थिरोऽभूत् । ततः सार्थकनामेत्यर्थः॥
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृ[७]सिंह: ॥३५॥
सुत इति ॥ मृगायताक्षो नृसिंहः पुरुषश्रेष्ठः स ध्रुवसंधिदर्शात्ययेन्दुप्रियदर्शने प्रतिपच्चन्द्रनिभे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन्सिंहाद्विपदं मरणमवापत् ॥ व्यसनासक्तिरनर्थावहेति भावः॥
स्वर्गामिनस्तस्य तमै[८]कमत्यादमात्यवर्गः कुलतन्तुमेकम् ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार ॥३६॥
स्वरिति ॥ स्वर्गामिनः स्वर्यातस्य तस्य ध्रुवसंधेरमात्यवर्गः । अनाथा नाथहीना अत एव दीनाः शोच्याः प्रकृतीः प्रजा अवेक्ष्य । कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनमैकमत्याद्विधिवत्साकेतनाथमयोध्याधीश्वरं चकार ।।
नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन ।
रघोः कुलं कु[९]ड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥३७॥
नवेति ॥ अप्रौढनरेन्द्रं तद्रघो: कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना। शावः शिशुरेकः सिंहो यस्मिन् ॥ “पृथुकः शावकः शिशुः" इत्यमरः ॥ तेन काननेन च । कुड्मलं कुड्मलावस्थं पुष्करं पङ्कजं यस्मिंस्तेन तोयेन चोपमेयमुपमातुमर्हमासीत् । नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्यश्रीमत्त्वानि मूचितानि ।।
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ३८
लोकेनेति ॥ स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्धेतो: पितुस्तुल्यः पितृसरूप एव भावी भविष्यति लोकेन जनेन संभावितस्तर्कित:॥ तथाहि । कलभप्रमाणः कलभमात्रोऽपि मेघः पुरोवातमवाप्याशा दिशो वृण्वन्गच्छन्दृष्टो हि ॥