काममिति ॥ प्रकृतिवैराग्यं प्रजाविरागम् । दैवादुत्पन्नमिति शेषः । सद्यः कामं सम्यक्शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः कर्तव्यः । अनर्थहेतुत्वादित्यर्थः । तद्वैराग्यं नोदपादयत्। उत्पन्नप्रतीकारादनुत्पादनं वरमिति भावः ॥ अत्र कौटिल्य: क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् । विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम्" ॥ तस्मात्पृकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः॥
शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः।
समीरणसहायोऽपि नाम्भः प्रार्थी द[१]वानलः ॥५६ ॥
शक्येष्विति ॥ शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्तिविषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्राभवत् । न तु समधिकेष्वित्यर्थः । तथाहि । समीरणसहायोऽपि दवानलोऽम्भःप्रार्थी जलान्वेषी न । दग्धुमिति शेषः। किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः ॥ अत्र कौटिल्यः-“समज्यायोभ्यां संदधीत हीनेन विगृह्णीयात्" इति ॥
न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ।
नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु ॥ ५७ ॥
न धर्ममिति ॥ स राजार्थकामाभ्यां धर्मं न बबाधे न नाशितवान् । तेन धर्मेण च तावर्थकामौ न । अर्थं कामेन कामं वार्थेन न बबाधे ॥ एकत्रैवासक्तो नाभूदित्यर्थः । किंतु त्रिषु धर्मार्थकामेषु सदृशस्तुल्यवृत्तिः । अभूदित्यर्थः ॥
हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते।
तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः॥ ५८॥
हीनानीति ॥ मित्राणि हीनान्यतिक्षीणानि चेदनुपकर्तॄण्यनुपकारीणि । प्रवृद्धान्यतिसमृद्धानि चेद्विकुर्वते विरुद्धं चेष्टन्ते । अपकुर्वत इत्यर्थः ॥ “अकर्मकाच्च" इत्यात्मनेपदम् ॥ अतः कारणात्तेन राज्ञा मित्राणि सुहृदः॥ "मित्रं सुहृदिमित्रोर्के" इति विश्वः॥ मध्यमशक्तीनि नातिक्षीणोच्छ्रितानि यथा तथा स्थापितानि ॥
" शक्येष्वेवाभवद्यात्रा " (१७।५६) इत्यादिनोक्तमर्थं सोपस्कारमाह-
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।
ययावे[२]भिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥ ५९॥
परेति ॥ सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां
शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य । एभिः शक्त्यादिभिः पर-