स्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन बलवांश्चेत् ॥ बलशब्दान्मतुबन्तादिष्ठन्प्रत्यः । "विन्मतोर्लुक्” इति मतुपो लुक् ॥ ययौ यात्रां चक्रे।अन्यथा बलिष्ठश्चेदास्तातिष्ठत् । न ययावित्यर्थः ॥ अत्र मनुः- “यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं चेत्तदा यायादरीन्प्रति । यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्" इति ॥
कोशेनेति ॥ कोशेनार्थचयेनाश्रयणीयत्वं भजनीयत्वम् । भवतीति शेषः । इति हेतोस्तस्य राज्ञः । कर्तुः । अर्थसंग्रहः । न तु लोभादित्यर्थः । तथाहि । अम्बु गर्भे यस्य सोऽम्बुगर्भः । जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः ॥ "मूङ् बन्धने" | पृषोदरादित्वात्साधुः । चातकैरभिनन्द्यते सेव्यते ।अत्र कामन्दकः " धर्महेतोस्तथार्थाय भृत्यानां रक्षणाय च । आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा" इति ॥
परकर्मेति ॥ स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन् ॥“ अन्येष्वपि दृश्यते” इत्यपिशब्दसामर्थ्याद्धन्तेर्डप्रत्ययः ॥ स्वेषु कर्मसूद्यत उद्युक्तोऽभूत् । किंच। रिपून्रन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनादिकमावृणोत्संवृतवान् ।। अत्र मनुः-" नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः" इति ॥
पित्रेति ॥ दण्डो दमः सैन्यं वा । तद्वतो दण्डवतो दण्डसंपन्नस्य तस्य राज्ञः पित्रा कुशेन नित्यं संवर्धितः पुष्टः कृतास्त्रः शिक्षितास्त्रः । संपरायो युद्धम् ॥ "युद्धायत्योः संपरायः" इत्यमरः ॥ तमर्हतीति सांपरायिकः॥" तदर्हति" इति ठक्प्रत्ययः॥ दण्डः सैन्यम् ॥ “दण्डो यमे मानभेदे लगुडे दमसैन्ययोः" इति विश्वः ॥ स्वदेहान्न व्यशिष्यत नाभिद्यत ॥ स्वदेहेऽपि विशेषणानि योज्यानि । मूलबलं खदेहमिवारक्षदित्यर्थः॥
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः।
स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ ६३॥