परेष्विति ॥ यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु शत्रुषु स्वेषु स्वकीयेषु च । मन्त्र्यादितीर्थेष्विति शेषः । क्षिप्तैः प्रहितैरविज्ञाताः परस्परे येषां तैः । अन्योन्याविज्ञातैरित्यर्थः । अपसर्पैश्चरैः ॥ “अपसर्पश्चरः स्पशः" इत्यमरः ॥ जजागार बुद्धवान् । चारमुखेन सर्वदा सर्वमज्ञासीदित्यर्थः ॥ अत्र कामन्दक:-" चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पापण्ड्यादीनविज्ञातानन्योन्यमितरैरपि" इति ॥
दुर्गाणि दु[१]र्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।
न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः॥ ५२ ॥
दुर्गाणीति ॥ द्विषां रोद्धू रोधकस्यापि । न तु स्वयं रोध्यस्येत्यर्थः । तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि दुर्गाणि महीदुर्गादीन्यासन् ॥ न च निर्भीकस्य किं दुर्गैरिति वाच्यामित्यर्थान्तरमुखेनाह-न हीति॥ गजानास्कन्दति हिनस्तीति गजास्कन्दी सिंहो भयाद्धेतोः । गिरिगुहासु शेत इति गिरिगुहाशयो न हि । किंतु स्वभाव एवेति शेषः । “अधिकरणे शेतेः" इत्यच्प्रत्ययः ॥ अत्र मनु:-"धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्ष्यमेव वा । नृदुर्ग गिरिदुर्गं वा समाश्रित्य वसेत्पुरम्” इति।।
भव्यमुख्याः समारम्भाःप्रत्यवेक्ष्या निरत्ययाः ।
गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे ।। ५३॥
भव्येति ॥ भव्यमुख्या कल्याणप्रधानाः । न तु विपरीताः । प्रत्यवेक्ष्या एतावत्कृतमेतावत्कर्तव्यमित्यनुसंधानेन विचारणीयाः । अतएव निरत्यया निर्बाधा गर्भेऽभ्यन्तरे पच्यन्ते ये शालयस्तेषां सधर्माणः । अतिनिगूढा इत्यर्थः ॥ “धर्मादनिच्केवलात्" इत्यनिच्प्रत्ययः समासान्तः ॥ तस्य राज्ञः समारभ्यन्त इति समारम्भाः कर्माणि गूढमप्रकाशं विपेचिरे । फलिता इत्यर्थः । “फलानुमेयाः प्रारम्भाः" इति भावः॥
अपथेनेति ॥ सोऽतिथिरुपचितोऽपि वृद्धिं गतोऽपि सन् । जातु कदाचिदप्यपथेन कुमार्गेण न प्रववृते न प्रवृत्तः । मर्यादां न जहावित्यर्थः । तथाहि । लवणाम्भसो लवणसागरस्य वृद्धौ पूरोत्पीडे सत्यां नदीमुखेनैव नदीप्रवेशमार्गेणैव प्रस्थानं निःसरणम् । न त्वन्यथेत्यर्थः ॥
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमाः।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥ ५५ ।
।