तीर्थ इति ॥ तदीये वैन्ध्ये तीर्थेऽवतारे गजा एव सेतुस्तस्य बन्धाद्धेतोः प्रतीपगां पश्चिमवाहिनीं गङ्गामुत्तरतोऽस्य कुशस्य नभोलङ्घनेन लोलपक्षा हंसा अयत्नेन बालव्यजनीबभूवुश्चामराण्यभूवन् ॥ अभूततद्भावे च्विः॥
स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् ।
सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौ[१]ललितं ववन्दे ॥ ३४॥
स इति ॥ स कुशः कपिलेन मुनिना रोषाद्भस्मावशेषीकृता विग्रहा देहा येषां तेषां पूर्वजानां वृद्धानां सागराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिर्लुलितं क्षुभितम् । त्रिस्रोतस इदं त्रैस्रोतसम् । गाङ्गमम्भो ववन्दे ॥
इत्यध्वनः कैश्चिदहोभिरन्ते कू[२]लं समासाद्य कुशः सरय्वाः।
वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥३५॥
इतीति॥इति कैश्चिदहोभिरध्वनोऽन्तेऽवसाने कुशः सरय्वाः कूलं समासाद्य वितताध्वराणां विस्तृतमखानां रघूणाम् । वेदिः प्रतिष्ठास्पदं येषां तान् । यूपाञ्छतशोऽपश्यत् ॥
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामो[३]पवनान्तवायुः ३६
आधूयेति ॥ कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखा आधूयेषद्धूत्वा । सुरभिर्मन्दश्चेत्यर्थः । शीतान्सरयूतरंगांश्च स्पृष्ट्वा । अनेन शैत्योक्तिः । क्लान्तसैन्यं तं कुशं प्रत्युजगाम ॥
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा।
कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि॥३७॥
अथेति॥अथ रिपुषु मग्नं शल्यं शङ्कुः शरो वा यस्य सः॥"शल्यं शङ्कौ शरे वंशे" इति विश्वः ॥पौराणां सखा पौरसखः। कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाश्चलन्तो वा ध्वजा येषां तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये ग्रामान्ते ॥ "ग्रामान्त उपशल्यं स्यात्" इत्यमरः॥निवेशयामास ॥
तामिति॥प्रभुणा नियुक्ताः शिल्पिनां तक्षादीनां संघाः संभृतसाधनत्वान्मिलि-