पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३३५ )
षोडशः सर्गः ।

तोपकरणत्वात्तां तथागताम् । शून्यामित्यर्थः । पुरमयोध्याम् । मेघा अपां विसर्गाज्जलसेकानिदाघग्लपितां ग्रीष्मतप्तामुर्वीमिव। नवीचक्रुः परिपूरयांचक्रुः ॥

  ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः ।
  उपोषितैर्वास्तुविधानविद्भिर्निर्व[१]तयामास रघुप्रवीरः॥ ३९ ॥

 तत इति ॥ ततो रघुप्रवीरः कुशः प्रतिमा देवताप्रतिकृतयः । अर्च्या इत्यर्थः। परार्घ्यप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पुर उपोषितैर्वास्तुविधानविद्भिः प्रयोज्यैः पशूपहारैः सहितां सपशूपहारां सपर्यां निर्वर्तयामास कारयामास ॥ अत्र ण्यन्ताण्णिच्पुनरित्यनुसंधेयम् । अन्यथा वृतेरकर्मकस्य करोत्यर्थत्वे कारयत्यर्था भावप्रसङ्गात् । भवितव्यं कृतेरण्यन्तकर्त्रा प्रयोज्यत्वेन तन्निर्देशात्प्रयोगान्तरस्यापेक्षितत्वात् ॥

  तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।
  यथार्हमन्यैरनुजीविलोकं संभावयामास य[२]थाप्रधानम् ॥ ४० ॥

 तस्या इति ॥ स कुशस्तस्याः पुरः संबन्धि राजोपपदं राजशब्दपूर्वं निशान्तम् । राजभवनमित्यर्थः ॥" निशान्तं भवनोषसोः" इति विश्वः ॥ कामी कान्ताहृदयमिव । प्रविश्य । अन्यनिशान्तैरनुजीविलोकममात्यादिकं यथाप्रधानं मान्यानुसारेण । यथार्हं यथोचितम् । तत्तदुचितगृहैरित्यर्थः। संभावयामास ॥

  सा मन्दुरासंश्रयिभिस्तुरंगैः शा[३]लाविधिस्तम्भगतैश्च नागैः ।
  पूरावभासे वि[४]पणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥४१॥

 सेति ॥ विपणिस्थानि पण्यानि क्रयविक्रयार्हवस्तूनि यस्याः सा ॥ “विपणिः पण्यवीथिका" इत्यमरः॥सा पूरयोध्या मन्दुरासंशयिभिरश्वशालासंश्रयणशीलैः।। “वाजिशाला तु मन्दुरा" इत्यमरः ॥ “ जिदृक्षि-" इत्यादिनेनिप्रत्ययः॥ तुरङ्गैरश्वैः। शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान्गतैः प्राप्तैर्नागैश्च । सर्वाङ्गेषु नद्धान्याभरणानि यस्याः सा नारीव । आबभासे ॥

  वसन्स तस्यां वसतौ रघूणां पुराणशोभाम[५]धिरोपितायाम् ।
  न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥४३॥

 वसन्निति ॥ स मैथिलेयः कुशः पुराणशोभा पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन् । दिवो भर्त्रे देवेन्द्राय तथालकेश्वराय कुबेरायापि न स्पृहयांबभूव । तावपि न गणयामासेत्यर्थः ॥ "स्पृहेरीप्सितः" इति

संप्रदानत्वात्चतुर्थी ॥ एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ॥


  1. निवर्तयामास.
  2. गृहस्तदीयैः.
  3. शालविधिस्तम्भगतैः; शालागृहैः स्तम्भगतैः; शालागृहस्तम्भगतैः.
  4. विपणिस्थपण्यैः.
  5. अधिरोहितायाम्.