"कर्तृकर्मणोःकृति" इति कर्तरि षष्ठी ॥ पीडां सोढमपर्याप्तवतीवाशक्तेव वसुंधरा रजश्छलेन द्वितीयं विष्णुपदमाकाशमध्यारुरोहेव । इत्युत्प्रेक्षा ॥
उद्यच्छमानेति ॥ पश्चात्कुशावत्याः सकाशाद्गमनाय प्रयाणाय तथा पुरोऽग्रे निवेशे निमित्ते । निवेष्टुं चेत्यर्थः । उद्यच्छमानोद्योगं कुर्वती ॥ “समुदाङ्भ्यो यमोऽग्रन्थे" इत्यस्य सकर्मकाधिकारत्वादात्मनेपदम् ॥ पथि च व्रजन्ती नृपस्य कुशस्य सा सेना यत्र पश्चात्पुरो मध्ये वा ददृशे तत्रैव सामग्र्यमतिं कृत्स्नताबुद्धिं चकार । अपरिमिता तस्य सेनेत्यर्थः॥
तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणाम् ।
रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ ३० ॥
तस्येति ॥ नेतुस्तस्य कुशस्य द्विपानां मदवारिभिः सेकात्तुरंगमाणां खुराभिघाताच्च यथासंख्यं पथि रेणू रजः पङ्कभावं पङ्कतां प्रपेदे। पङ्कोऽपि रेणुत्वमियाय । तस्य तावदस्तीत्यर्थः॥
मार्गेति ॥ वैन्ध्येषु विन्ध्यसंबन्धिषु कटकान्तरेषु नितम्बावकाशेषु ॥ "कटकोऽस्त्री नितम्बोऽद्रेः" इत्यमरः ॥ मार्गैषिणी मार्गावलोकिनी । अत एव बहुधा विभिन्ना । महाविरावा दीर्घशब्दा सा सेना । रेवेव नर्मदेव ॥ "रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका" इत्यमरः ॥ गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकाराकरोत् ॥
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।
व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि॥३२॥
स इति ॥धातूनां गैरिकादीनां भेदेनारुणा याननेमी रथचक्रधारा यस्य । प्रयाणे ये ध्वनयः क्ष्वेडहेषादयः। तन्मिश्राणि तूर्याणि यस्यैवंविधः स प्रभुः कुशः। पुलिन्दैः किरातैरुपपादितानि समर्पितान्युपायनानि पश्यन् । विन्ध्यं व्यलङ्घयत्॥
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम्।
अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः॥३३॥