कृतेति ॥ शूद्रः शम्बुको राज्ञा स्वयं कृतदण्डः कृतशिक्षः सन् । सतां गतिं लेभे । दुश्चरेणापि स्वमार्गविलङ्घिना । अनधिकारदुष्टेनेत्यर्थः। तपसा न लेभे ॥ अत्र मनु:-"राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा" इति ॥
रघुनाथोऽप्यगस्त्येन मा[१]र्गसन्दर्शितात्मना।
महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ ५ ॥
रघुनाथ इति ॥ रघुनाथोऽपि मार्गसन्दर्शितात्मना महौजसागस्त्येन । इन्दुना शरत्काल इव । संयुयुजे सङ्गतः । इन्दावपि विशेषणं योज्यम् ॥ रघुनाथेत्यत्र क्षुभ्रादित्वाण्णत्वाभावः॥
कुम्भयोनिरलङ्कारं तस्मै दिव्यपरिग्रहम् ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ ५५ ॥
कुम्भेति ॥ कुम्भयोनिरगस्त्यः पीतेन समुद्रेणात्मनिष्क्रमिवात्ममोचनमूल्यमिव दत्तम् । अतएव परिगृह्यत इति व्युत्पत्त्या दिव्यपरिग्रहः । दिव्यानां परिग्राह्य इत्यर्थः । तमलङ्कारं तस्मै रामाय ददौ ॥
तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना।
पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मनः ॥५६॥
तमिति ॥ मैथिलीकण्ठनिर्व्यापारेण बाहुना तमलङ्कारं दधद्रामः पश्चान्निववृते निवृत्तः । परासुर्मृतो द्विजात्मजः प्राग्रामात्पूर्वं निववृते ॥
तस्य पूर्वोदितां निन्दां द्विजः पुत्रस[२]मागतः ।
स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ।। ५७ ॥
तस्येति ॥ पुत्रसमागतः पुत्रेण सङ्गतो द्विजो वैवस्वतादब्तकादपि त्रातू रक्षकस्य॥ "भीत्रार्थानां भयहेतुः" इत्यपादानात्पञ्चमी ।। तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ॥
तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः।
मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः ॥ ५८ ॥
तमिति ॥ अध्वरायाश्वमेधाय मुक्ताश्वं तं रामं रक्षःकपिनरेश्वराः सुग्रीवविभीषणादयो राजानश्च । मेघा अम्भोभिः सस्यमिव । उपायनेरभ्यवर्षन् ।
१ . २ .