इत्याप्तवचनाद्रामो विने[१]ष्यन्वर्णविक्रियाम् ।
दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥४८॥
इतीति ॥ इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन्वेगेन निष्कम्पकेतुना पत्रेण वाहनेन पुष्पकेन ॥ “पत्रं वाहनपक्षयोः" इत्यमरः॥ दिशः पपात धावति स्म ॥
अथेति ॥ अथेक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः ॥ “कोपधादण्" इत्यणि कृते "दाण्डिनायन-" इत्यादिनोकारलोपनिपातः ॥ धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं पतश्चरन्तं कञ्चित्पुरुषं ददर्श ॥
पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः।
आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम् ॥५०॥
पृष्टेति ॥ राज्ञा नाम चान्वयश्च तौ पृष्टौ नामान्वयौ यस्य स तथोक्तः । धूमं पिबतीति धूमपः ॥ “सुपि” इति योगविभागात्कप्रत्ययः ॥ स पुरुष आत्मानं सुरपदार्थिनं स्वर्गार्थिनम् । अनेन प्रयोजनमपि पृष्ट इति ज्ञेयम् । शम्बुकं नाम शूद्रमाचष्ट बभाषे किल॥
तपस्यनधिकारित्वात्प्रजानां तमघावहम् ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥ ५१ ॥
तपसीति ॥ तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम्|| "शीर्षच्छेदाद्यच्च” इति यत्प्रत्ययः॥ परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ॥
स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ।। ५२।।
स इति ॥ स रामो ज्योतिष्कणैः स्फुलिङ्गैराहतानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रम् । हिमक्लिष्टकिञ्जल्कं पङ्कजमिव । कण्ठ एव नालं तस्मादपातयत् ॥
कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् ।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ ५३॥
१ . २ . ३.