दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः ।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥ ५९॥
दिग्भ्य इति ॥ निमन्त्रिता आहूता महर्षयश्च भूम्याः सम्बन्धीनि भौमानि धिष्ण्यानि स्थानान्येव न ॥ "धिष्ण्यं स्थाने गृहे भेऽग्नौ" इत्यमरः॥ किन्तु ज्योतिर्मयानि नक्षत्ररूपाणि धिष्ण्यान्यपि हित्वा दिग्भ्य एनं राममभिजग्मुः।
उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ ६०॥
उपेति ॥ चत्वारि द्वाराण्येव मुखानि यस्याः सा चतुर्द्वारमुख्ययोध्या । उपशल्येषु ग्रामान्तेषु निविष्टैः ॥ “ग्रामान्त उपशल्यं स्यात्" इत्यमरः॥ तैर्महर्षिभिः। सद्यः सृष्टलोका पितामहस्येयं पैतामही तनुर्मूर्तिरिव । बभौ ॥
श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
अनन्यजानेः सै[१]वासीद्यस्माज्जाया हिरण्मयी॥६१॥
श्लाघ्य इति ॥ वेदह्यास्त्यागोऽपि श्लाघ्यो वर्ण्य एव । कुतः । यस्मात् । प्राग्वंशः प्राचीनस्थूणो यज्ञशालाविशेषः । तद्वासिनः । नास्त्यन्या जाया यस्य तस्यानन्यजानेः|| "जायाया निङ्" इति समासान्तो निङादेशः॥ पत्यू रामस्य हिरण्मयी सौवर्णी ॥ "दाण्डिनायन-" आदिसूत्रेण निपातः॥ सा निजैव जाया पत्न्यासीत्|| कविवाक्यमेतत् ॥
विधेरधिकसम्भारस्ततः प्रववृते मखः।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः॥६२॥
विधेरिति ॥ ततो विधेः शास्त्रादधिकसम्भारोऽतिरिच्यमानपरिकरो मखः प्रववृते प्रवृत्तः । यत्र मखे । विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः ॥ “मखे यज्ञे यज्ञार्थे कविधानम्" इति कः ॥ क्रियाविघ्ना अनुष्ठानविघातका राक्षसा एव रक्षिणो रक्षका आसन् ।
अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचो[२]दितौ ॥ ६३ ॥
अथेति ॥ अथ मैथिलेयौ मैथिलीतनयौ ॥स्त्रीभ्यो ढक्||कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ । प्राचेतसो वाल्मीकिः । उपज्ञायत इत्युपज्ञा ।। “आतश्चोपसर्गे” इति कर्मण्यङ्प्रत्ययः ।। प्राचेतसस्योपज्ञा प्राचेतसोपज्ञम्| प्राचेतसेनादौ ज्ञातमित्यर्थः॥ "उपज्ञा ज्ञानमाद्यं स्यात्" इत्यमरः॥ “उपज्ञोपक्रमं
१ . २ .
.