मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव ॥ "स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः" इत्यमरः ॥ अधिज्यमधिगतमौर्वीकं धनुरुपाददे जग्राह॥
तस्य स्तनप्रणयिभिर्मुहुरेणशावै-
र्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगर्वितकृष्णसारम् ॥ ५५॥
तस्येति ॥ स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः ॥ “पृथुकः शावकः शिशुः" इत्यमरः ॥ व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत् । कुशा गर्भे येषां तानि मुखानि यस्य तत्कुशगर्भमुखम् । तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत् । मृगाणां यूथं कुलम् । “सजातीयः कुलं यूथं तिरश्चां पुंनपुंसकम्" इत्यमरः ॥ तस्य दशरथस्य पुरस्तादग्र आविर्बभूव ॥ वसन्ततिलकं वृत्तम् ॥
तत्प्रार्थितं जवनवाजिगतेन राज्ञा
तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।
श्यामीचकार वनमाकुलदृष्टिपातै-
र्वातेरितोत्पलदलप्रकरैरिवा[१]र्द्रैः ॥ ५६ ॥
तदिति ॥ जवनो जवशीलः ॥ “जुचंक्रम्य-" इत्यादिना युच्प्रत्ययः ॥ "तरस्वी त्वरितो वेगी प्रजवी जवनो जवः" इत्यमरः॥तं वाजिनमश्वं गतेनारूढेन । तूणीषुधिः ॥ “बह्वादिभ्यश्च" इति स्त्रियां ङीष् ॥ तस्या मुखाद्विवरादुध्दृतशरेण राज्ञा प्रार्थितमभियातम् ॥ “ याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः" इति केशवः ॥ अतएव विशीर्णा पङ्क्तिः संघीभावो यस्य तत् । मृगयूथम् । कर्तृ । आर्द्रैर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः । वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव । वनं श्यामीचकार ॥
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देह[२]म् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसंजहार ॥ ५७॥
लक्ष्यीकृतेति ॥ हरिरिन्द्रो विष्णुर्वा । तस्येव प्रभावः सामर्थ्यं यस्य स त-