ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥५१॥
ग्रथितेति ॥ वनमालया वनपुष्पस्रजा ग्रथितमौलिर्बद्धधम्मिल्लः । तरूणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः । इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासार्थम्। तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिर्मृगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासुविरुरुचे विदिद्युते ॥
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।
ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोशलम् ।। ५२॥
तन्विति ॥ तनुषु लतासु विनिवेशितविग्रहाः संक्रमितदेहाः । भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्या नन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः । प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ॥
श्वगणीति ॥ स दशरथः । शुनां गणः स एषामस्तीति श्वगणिनः श्वग्राहिणः। तैः । वागुरा मृगबन्धनरज्जुः ॥ “वागुरा मृगबन्धनी" इत्यमरः ॥ तया चरन्तीति वागुरिका जालिकाः॥ “चरति" इति ठक्प्रत्ययः॥ "द्वौ वागरिकजालिकौ" इत्यमरः ॥ तैश्च प्रथममास्थितमधिष्ठितम् । व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च यस्मात्तथोक्तम् ॥ "दस्युतस्करमोषकाः" इत्यमरः ॥ "कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः । आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठेत्" इति कामन्दकः ॥ स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत् । निपानवदाहावयुक्तम् ॥ “आहावस्तु निपानं स्यादुपकूपजलाशये" इत्यमरः॥ मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ॥
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसं[३]युतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥ ५४॥
अथेति॥अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः । रवेण धनुष्टङ्कारेण
रोषिताः केसरिणः सिंहा येन स राजा। कनकमिव पिङ्गः पिशङ्गो यस्तडिदेव गुणो