संतानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ ३४ ॥
संतानोति ॥ तेन दिलीपेन । संतानोऽर्थः प्रयोजनं यस्य तस्मै संतानार्थाय विधयेऽनुष्ठानाय । स्वभुजादवतारितावरोपिता जगतो लोकस्य गुर्वी धूर्भार्रः सचिवेषु निचिक्षिपे निहिता ॥
अथाभ्यर्च विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दंपती वशिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥ ३५॥
अथेति ॥ अथ धुरोऽवतारानन्तरं पुत्रकाम्ययात्मनः पुत्रेच्छया ॥ “काम्यच्च” इति पुत्रशब्दात्काम्यच्प्रत्ययः । “अ प्रत्ययात्” इति पुत्रकाम्यधातोरकारप्रत्ययः । ततष्टाप् ॥ तया तौ दंपती जायापती ॥ राजदन्तादिषु जायाशब्दस्य दमिति निपातनात्साधुः ॥ प्रयतौ पूतौ विधातारं ब्रह्माणमभ्यर्च्य ॥ “स खलु पुत्रार्थिभिरुपास्यते” इति मान्त्रिकाः ॥ गुरोः कुलगुरोर्वशिष्ठस्याश्रमं जग्मतुः । पुत्रप्राप्त्युपायापेक्षयेति शेषः॥
स्निग्धेति ॥ स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम् । प्रावृषि भवः प्रावृषेण्यः ॥ “प्रावृष एण्यः” इत्येण्यप्रत्ययः॥ तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव । आस्थितावारूढौ । जग्मतुरिति पूर्वेण संबन्धः ॥ इरा आपः ॥ “इरा भूवाक्सुराप्सु स्यात्” इत्यमरः ॥ इरावान्समुद्रः । तत्र भव ऐरावतोऽभ्रमातङ्गः ॥ “ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः” इत्यमरः । “अभ्रमातङ्गत्वाच्चाभ्रस्थत्वादभ्ररुपत्वात्” इति क्षीरस्वामी ॥ अत एव मेघारोहणं विद्युत्साहचर्यं च घटते । किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा । ऐरावतस्य स्त्रैरावतीति क्षीरस्वामी । तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति ॥ एकरथारोहणोत्तया कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ॥
३४-३५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
गङ्गां भगीरथेनैव पूर्वेषां पावनक्षमाम् ।
ईप्सिता(१) संतति न्यस्ता तेन मन्त्रिषु कौशला(२) ॥ (१ इच्छता.२ कोसला.)