स इति ॥ स दिलीपः । वेलाः समुद्रकूलानि ॥ “वेला कूलेऽपि वारिधेः” इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम् ॥ “स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः प्राचीनं प्रान्ततो वृतिः” इत्यमरः॥परितः खातं परिखा दुर्गवेष्टनम् ॥ “खातं खेयं तु परिखा” इत्यमरः ॥ “ अन्येष्वपि दृश्यते” इत्यत्रापिशब्दात्खनेर्डप्रत्ययः ॥ अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम् ॥ अभूततद्भावे च्विः ॥ अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशासनामुर्वीमेकपुरीमिव शशास । अनायासेन शासितवानित्यर्थः।।
तस्य दाक्षिण्यरू[१]ढेन नाम्ना मगधवंशजा।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥३१॥
तस्येति ॥ तस्य राज्ञो मगधवंशे जाता मगधवंशजा ॥ “सप्तम्यां जनेर्डः” इति डप्रत्ययः॥ एतेनाभिजात्यमुक्तम् । दाक्षिण्यं परच्छन्दानुवर्तनम् ॥ “दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु” इति शाश्वतः ॥ तेन रूढं प्रसिद्धम् । तेन नाम्ना । अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव । सुदक्षिणेति प्रसिद्धा पत्न्यासीत् ॥ अत्र श्रुतिः-“ यज्ञो गन्धर्वस्तस्य दक्षिणाप्सरसः” इति ॥ “दक्षिणाया दाक्षिण्यं नामर्त्विजो दक्षिणत्वप्रापकत्वम् । ते दक्षन्ते दक्षिणां प्रतिगृह्य” इति च ॥
कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥३२॥
कलत्रवन्तमिति ॥ वसुधाधिपः । अवरोधेऽन्तःपुरवर्गे महति सत्यपि । मनस्विन्या दृढचित्तया । पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थः । तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने ॥ “कलत्रं श्रोणिभार्ययोः” इत्यमरः॥ वसुधाधिप इत्यनेन वसुधया चेति गम्यते ॥
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः।
विलम्बितफलैः कालं स निनाय मनोरथैः ॥३३॥
तस्यामिति ॥ स राजा । आत्मानुरूपायां तस्याम् । आत्मनो जन्म यस्यासावात्मजन्मा पुत्रः। तस्मिन्समुत्सुकः । यद्वा । आत्मनो जन्मनि पुत्ररूपेणोत्पत्तौ समुत्सुकः सन् ॥ आत्मा वै पुत्रनामासि” इति श्रुतेः ॥ विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तैर्मनोरथैः कदा मे पुत्रो भवेदित्याशाभिः कालं निनाय यापयामास ॥
- ↑ युक्तेन.