मा भूदाश्रमपीडेति परिमेयपुरःसरौ।
अनुभावविशेषात्तु सेनापरिवृताविव[१] ॥ ३७॥
मा भूदिति ॥ पुनः किंभूतौ दंपती । आश्रमपीडा मा भून्मास्त्विति हेतोः॥ “माङि लुङ्” इत्याशीरर्थे लुङ् । “ न माङ्योगे” इत्यडागमनिषेधः ॥ परिमेयपुरःसरौ परिमितपरिचरौ । अनुभावविशेषात्तु तेजोविशेषात्सेनापरिवृताविव स्थितौ ॥
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणू[२]त्किरैर्वातैराधूतवनराजिभिः॥३८॥
सेव्यमानाविति ॥ पुनः कथंभूतौ । सुखः शीतलत्वात्प्रियः स्पर्शो येषां तैः। शालनिर्यासगन्धिभिः सर्जतरुनिस्यन्दगन्धवद्भिः॥ “शालः सर्जतरुः स्मृतः” इति शाश्वतः ॥ उत्किरन्ति विक्षिपन्तीत्युत्किराः ॥ “इगुपध-” इत्यादिना किरतेः कप्रत्ययः ॥ पुष्परेणूनामुत्किरास्तैराधूता मान्द्यादीषत्कम्पिता वनराजयो यैस्तैर्वातैः सेव्यमानौ ॥
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥३९॥
मनोभिरामा इति ॥ रथनेमिस्वनोन्मुखैः । मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः । शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः । शुद्धविकृतभेदेनाविष्कृतावस्थायां च्युताच्युतभेदेन वा षड्जो द्विविधः । तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते । अत एवाह-षड्जसंवादिनीरिति । षड्भ्यः स्थानेभ्यो जातः षड्जः। तदुक्तम्--“ नासाकण्ठमुरस्तालु जिह्वादन्तांश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः” ॥ स च तन्त्रीकण्ठजन्मा स्वरविशेषः । “ निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ” इत्यमरः ॥ षड्जेन संवादिनीः सदृशी: । तदुक्तं मातङ्गेन-- “ षड्जं मयूरो वदति” इति ॥ मनोभिरामा मनसः प्रियाः । के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः ॥ केका वाणी मयूरस्य” इत्यमरः ॥ ताः केकाः शृण्वन्तौ । इति श्लोकार्थः ।
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥४०॥
परस्परेति ॥ विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वर्त्म यैस्तेषु ।