पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः - । समये श्रीठाकुर: सूक्ष्मदेहे आविर्भूतस्तमुवाच - "सुरेन्द्र ! त्वं किं करोषि ? बालका निराश्रिता भूत्वा इतस्ततो भ्राम्यन्ति । तेषां कृते कस्यचिन्निवासस्थानस्याद्यापि प्रबन्धस्त्वया न विहितः ?” तां दैवीं वाणीमाकर्ण्य सुरेन्द्रनाथस्तम्भितो बभूव । तदैवासौ नरेन्द्रान्वेषणे निर्जगाम अत्यन्वेषणानन्तरं बलराममन्दिरे तेन साक्षात्कारो दर्शनादेशवृत्तान्तं श्रावयित्वा सजलनयनः सुरेन्द्रनाथ : प्रत्यवादीत् - "भ्रातरः, यूयं कुत्र गमिष्यथ ? श्रीठाकु- रस्यादेशोऽयं यत् कुत्राप्येकं गृहं भाटकेन गृह्यताम् । तत्रैव यूयं स्थास्यथ । वयमपि मध्ये मध्ये समागत्य सांसारिकों ज्वालां शम- यिष्यामः । अहं काशीपुरे तस्य सेवार्थं किञ्चिद्धनमयच्छम् । तन्न निरोत्स्यामि । त्वां सविनयं प्रार्थये यत् त्वं कमपि प्रबन्धं कुरु, येन सर्वे एकत्र स्थास्यन्ति ।” जातः । श्रीठाकुरस्य आकाशचन्द्रो मुष्टिकायामिवागतः । नरेन्द्रनाथ आनन्देनाधीरो भवन्नुवाच – “ममापि मनस्येकमात्रमियमेव चिन्ता आसीद् यत् सर्वानादायैकस्थाने संघीभूय कथं तिष्ठेयम् । यदि श्रीठाकुरस्यादेशो जातस्तदा सर्व सम्पत्स्यते ।" ... परस्मिन् दिवसे कांश्चन युवकान् भक्तान् आदाय भाटकभवनान्वे- पणाय स प्रस्थितः । कियद्दिनाभ्यन्तरे, कलिकत्ताया अपरसीमनि बराहनगरे 'भूत निवास' इति ख्यातं गृहमेकं दशरूप्यकमासिकभाटकेन गृहीतमभवत् । तदानीं तस्य भ्रातुस्तारकस्य वचो विशिष्य स्मृति- पथमगच्छत् । स तु श्रीठाकुरस्य विद्यमानतायामेव गृहं त्यक्त्वा संन्यासी अभवत् । तारकनाथस्तावत् वृन्दावनात् काशीमागत्य साधनभजने न्यरंस्त । नरेन्द्रनाथेन भाटकगृहीतभवन वृत्तान्तमन्यान् समाचारांश्च वेदयित्वा विना विलम्बं समागमनायासौ सुचितः । पत्रमधिगत्यैव तारकनाथः कलिकत्तायामाजगाम ।