पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः श्रीठाकुरस्प जीवनमसौ नवीनया दृष्ट्या ददर्श । तेन दिव्या दृष्टिरिव समधिगता । श्रीठाकुरेण नरेन्द्रस्य नयने दिव्यदृष्टिरूपेणाञ्जने- नेव विलेपिते । श्रीठाकुरस्य प्रत्येकवृत्तांतेनाचरणेन चासौ नूतनं प्रकाशमपश्यत्, तद्विचा रेष्वपि अभिनवपरिवर्तनमन्वभवत् । अयमेव नरेन्द्रनाथ: कदाचित् श्रीठाकुरस्य सम्मुखं व्याजहार – "भवदीयं दर्शनादि मस्तिष्कचापल्यं नेत्रभ्रमो वा ।” प्रत्येकं मानवः स्त्रीयसी- मितदृशाऽसीमानन्तं द्रष्टुमीहते, अल्पेन मनसा बुद्धया स्वल्पया च विराजं परिमापयितुमिच्छति ।... ७३ १८८४ ईसवीयस्येयं घटना | श्रीठाकुरस्य गेहे अनेके भक्ताः समागमन् । नरेंद्रोऽप्युपस्थित आसीत् । बहव ईश्वरीयवृत्तान्ता । - अभूवन् । वैष्णवधर्मस्यालोचनाप्रसंगेन श्रीठाकुरो जगाद – “नामनि रुचिः, जीवेषु दया, वैष्णवपूजनं चेति त्रयं वैष्णवधर्मस्योपदेशसारः । नामैवेश्वरः – नामनामवतोरभेदज्ञानेनानुरागपूर्वकं सर्वदा भगवन्नामानि जपनीयानि । भक्ते भगवति, विष्णौ वैष्णवे च परस्परमभेदबोधेन सदैव साधवो भक्ताः पूजनीया वन्दनीयाश्च । जगत् सर्वं श्रीकृष्ण- रचितमिति हृदये धारयित्वा सर्वजीवेषु दया” – इत्युदीर्याकस्मादेवासौ समाधिस्थोऽभवत् । किञ्चित्कालानन्तरं कथञ्चित् प्रकृतिस्थो भूत्वा स स्वमनस्येव व्याचष्ट — “जीवे दया, जीवे दया ? धिक् तत् ! कीटाणुकोटोऽसि, त्वं जीवेषु कथं दयां करिष्यसि ? त्वं कोऽसि दयाकर्त्ता ? न हि, न हि जीवेषु दया न । शिवज्ञानेन जीवसेवा ।” सर्वैरेव मुग्धैर्भूत्वा देववाणोयमाकर्णिता । परमस्यां यत् परमसत्यं निहितमास्ते, तत्केवलं नरेन्द्रनाथेनैवावधारितम् । तेनानन्तरं प्रोक्तम्- “की हगपूर्व प्रकाशोऽद्य मया श्रीठाकुरस्य वचसा प्राप्तः ! श्रीठाकुरेण भावाविष्टेनाद्य यत्किमप्युक्तं तेन वनस्य वेदांतो गृहमानेतुं शक्यते । संसारस्य सर्वेष्वपि कार्येषु परमसत्यस्यास्य प्रयोगः कर्तुं शक्यते ।...