पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः जानि मा ओ दीनदयामयी, तुमि दुर्गमेते दुःखहरा । तुमि जले तुमि स्थले, तुमि आद्यामूले गो मा । आछो सर्वघटे अक्षपुढे साकार आकार निराकारा || तुमि सन्ध्या तुमि गायत्री, तुमि जगद्धात्री गोमा । तुमि अकुलेर त्राणकर्त्री, सदाशिवेर मनोहरा ॥ अर्थात्- त्वं जानामि मातः, मम ) त्रिगुणधरा , मा त्वं हि तारा । परात्परा ॥ असि दीनदयामयी, त्वं दुर्गतितो दुःखहरा । त्वमाद्यामूले अयि मातः । साकाराकारा निराकारा || त्वं जले त्वं असि हि स्थले सर्वघटे अक्षिपुढे अक्षिपुढे त्वं सन्ध्या त्वमेव गायत्री त्वं हि जगद्धात्री अये मातः । त्रणक मनोहरा ॥" सदाशिवस्य • G त्वमकूलात् श्रीठाकुराद् गानमिदं शिक्षित्वा नरेन्द्रनाथस्तद् गायन् निशां समस्तामनैषीत् । तदान्तरिकः समुद्रः प्रेमचन्द्रोदयेन समुद्वेलितो बभूव । श्रीठाकुरस्य प्रार्थनया तथा नरेन्द्रनाथस्य पारिवारिको धनाभावः कियदंशतो दूरं गतः । स विद्यालयस्य ( स्कूल ) शिक्षकतां कार्यान्त- राणि च प्रापत् । तदीयहार्दिक दुर्दमनीयद्वन्द्वभावस्तिरोदधे | तस्यान्तः- करणं झञ्झावातनिर्मुक्तवारिधिरिव प्रशान्तं गम्भीरं च समजायत । ज्ञानतोऽसौ भगवत्प्रेमिण ऊर्ध्वतमातिचेतनदिव्यप्रकाशं प्राप्तवान् । सहैव श्रीरामकृष्णदेवमहिमाऽपि तदीयान्तःकरणेऽधिकारमकार्षीत् । स दक्षिणेश्वरगमनस्यैकमप्यवसरं नात्यजत् । श्रीठाकुरस्य सर्वमपि दर्शनादिकं तेन सत्यतया गृहीतम् । श्रीरामकृष्णदेवोऽपि नरेन्द्रं शनैः शनैरूर्ध्वस्थासीमभूमानंद निकेतनाभिमुखं परिचालयाञ्चकार ।