पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः नरेन्द्रमासाद्य आनन्दाप्लुतोऽभूत् । तं प्रति सामाजिकैर्यादृशोऽशिष्ट- व्यवहारः कृतः, तमेकवारमपि तन्मनो नास्मरत् । तेन यदिच्छितं तदधिगतम् | कुत्रचिदन्यत्र नासीत्तस्य दृष्टिः । श्रीरामकृष्णं तथाविधमपमानितमवलोक्य नरेन्द्रनाथस्य मनसि महानाघातोऽभूत् । स च तस्मै अभियोगमर्पयन्नुवाच - "भवान् कथं तत्रागच्छत् ? तैरीपदपि भवन्मर्यादा किं रक्षिता ?" तेन मानसिकेन दुःखेनान्यान्यपि कठोरवचनानि प्रोक्तानि । श्रीरामकृष्णस्यैतादृश- मपमानं तस्यासहनीयमभूत् । एतावदेव न, स्वं प्रति श्रीरामकृष्णस्यैतादृशाकर्षणकारणं नावबुध्य नरेन्द्रनाथेनैकदा प्रोक्तम्- “पुराणे प्रतिपादितमास्ते यद् राजा भरतो हरिगं चिन्तयन् मृत्योरनन्तरं हरिणो बभूव । यदि कथेयं सत्या, तदा मां प्रत्येताशाकर्षणपरिणामो भवताप्यालोचनीयः ।” त्वया श्रीरामकृष्णः सरलबालकवदासीत् | नरेन्द्रमुखादेतद् वचनमा कर्ण्यातिचिन्तितोऽभूत् । पुनश्च प्रोवाच - "एतदेवास्ति, सत्यमुक्तम् । तदा किं स्यात् ? अहं तु तव निरीक्षणमन्तरेण न स्थातुं शक्नोमि ।” एतेनापि मानसं शान्ति नापद्यत । स च भयंकरपश्चात्तापेन दग्धो भवन् भवतारिण्या मन्दिरमगच्छत् । किंचित्कालानन्तरं मन्दिराद् निर्गत्य विहस्य तेनोक्तम् । अपसर मूढ़ ! अहं तव वार्त्ता न मन्ये । माताऽवदत् - "तं त्वं साक्षान्नारायणमवगच्छसि । अत एतावत् प्रेम करोषि । यदा त्वं तदभ्यन्तरे नारायणं न द्रक्ष्यसि तदा तन्मुखमपि न विलोकयिष्यसि ।” नरेन्द्रस्य समस्तोऽप्यभियोग एकेनैव वचसा व्यर्थतां गतः । श्रीरामकृष्णो नरेन्द्रं विश्वनाथदत्तपुत्रं मत्वा न स्निह्यति । दर्शनश्रवणे, गानवादने पठनलेखने चासावनन्यसाधारण - इति गुणैरपि प्रीतिं -