पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः प्रत्युत प्रासीदत् । न तत्र संकीर्णताया लेशोऽप्यभूत् । तस्योदारो भावो मनश्च ।... ५२ केनापि कारणेन नरेन्द्रनाथ एकवारं बहूनि दिनानि नाजगाम | प्रतिदिनं श्रीरामकृष्णस्तदागमनप्रतीक्षामकार्षीत् । नरेन्द्रागमनं प्रतीक्ष- माणस्तस्थौ । बहून् दिवसान् प्रतीक्षमाणोऽपि नरेन्द्रमनागतमवलोक्य सोऽधीरो बभूव । आन्तरिक विरहभावनानिवारणासामर्थ्यात् तस्मिन् एव दिने कलिकत्तां प्रस्थाय नरेन्द्रं निरीक्षितुं निश्चयमकार्षीत् । अनन्तरं च स्मृतिरभूत् यत् तस्मिन् दिने रविवारः । यदि गृहे नरेन्द्रो न स्यात तदा विशाले कलिकत्तानगरे कुत्र कुत्रासावन्विष्यति । द्वितीयक्षण एव स्मृतं, यद् रविवारे सायंकालीनब्राह्मसमाजोपासनायां भजनं गातुं नूनमसौ यास्यति । तत्र गमनेन द्रक्ष्यतेऽसौ । सन्ध्यायां समाजस्योपासना प्रारभत । अत्रैव काले भावस्थः श्रीरामकृष्णो ब्रह्ममन्दिरं प्रविष्टः, यत्र मञ्चमधिष्ठाय आचार्य उपासनां विधत्ते, तद्दिशमुपससार | श्रीरामकृष्णस्याकस्मिकागमनेन समाजे महान् कोलाहलो जातः । श्रीरामकृष्णो मंचसमीपमागत्य सहसा समाधिस्थो बभूव । तत्स- माधिमवलोकयितुं बहवो जना व्याकुलत्वं प्रपेदिरे | नरेन्द्रनाथः श्रीठाकुरं तदवस्थमवलोक्य तदागमनकारणमवागच्छत् | त्वरयाऽसौ समागत्य श्रीरामकृष्णपार्श्वमुपतस्थौ । समाजमन्दिरेऽतिशयः कोलाहलो बभूव । श्रीरामकृष्णं द्रष्टुमनेके मानवा अग्रे समागन्तुमचेष्टन्त | जनसमारोहं शान्तयितुम् उपायान्तरं नावलोक्य समाजगृहस्य निखिला अपि प्रकाशा निर्वापिताः । एतत्परिणामतोऽव्यवस्था नितरां प्रावर्धत । नरेन्द्रनाथः श्रीरामकृष्णस्य शरीररक्षकरूपेण दण्डायमानोऽभवत् । सामाजिकाना मेतेनाशिष्टतापूर्णेन व्यवहारेण स नितान्तं दुःखमन्व- भवत् । समाधौ भग्नेऽसौ श्रीरामकृष्णं गृहीत्वा कथंचित् समाजगृहस्य पृष्ठद्वारेण बहिर्निर्गत्य तेन सहैव दक्षिणेश्वरमाययौ । श्रीरामकृष्णो