पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्थ-विवेकानन्दः नाकरोत् । तं नरऋषेरंशावतारं प्रधानवार्तावहं चामन्यत, अत एव नरेन्द्रं प्रति तदीयमेतादृशं दुर्दमनीयमाकर्षणमासीत् | नरेन्द्रस्यागमने- नैत्रासौ नितान्तमस्थिरत्वमभजत् | नौवतगृहे सारदादेवीमसूचयत्- “अये, नरेन्द्र आयातः, समीचीनां रसवतीं कुरु ।” स्थूला: करपट्टिकाः स्फीतचणक द्विद्लानि च नरेन्द्रस्य नितरां प्रीतिमावहन् । श्रीसारदादेवी चापि तदेव निर्माय श्रीठाकुरस्य प्रकोष्ठं प्रैरयत् । एतेषु दिवसेषु दक्षिणेश्वरे अनेकेषां युवकभक्तानां समागमो बभूव । श्रीठाकुररामकृष्णदेवेन सर्वेषां धर्मजीवनानि महताऽऽदरेण संघटितानि । साकारविश्वासिनां साकारभावेन, निराकार प्रत्ययजुषां निराकारभावेन धर्मोपदेशो दत्तः । केचिच्च देव-देवीनामुपरि भक्ति- मन्तः, केऽपि चाद्वैतवादिनः | समेषामेव कृते श्रीरामकृष्णसमीपे स्थानमासीत् । स च सर्वभावमयः । अतो विविधभावावलम्बि पथिकान् भूमानन्दस्य मार्गे, अनन्तस्याभिमुखं च परिचालयितुम- शक्नोत् । प्रत्येकं युवको भक्तस्तं प्रति पितुरपेक्षयाऽधिकां प्रीतिं भक्ति च विदधाति । बाबूरामस्तु स्वल्पैरेवाहोभिक्षिणेश्वरे गतागतम- कार्षीत् । श्रीरामकृष्णस्या हैतुकेन प्रेम्णा तस्य हृदयं द्रवीभूतमभूत् । तेन श्रीरामकृष्णगभीरप्रेमप्रसंगे स्वकीया जननी प्रोक्ता - अहो, असौ यादृशं स्नेहं विधत्तं तस्य तुलना नास्ति | त्वमपिन तथा स्निह्यसि । पुत्रस्य मुख देतादृशो वार्तामाकर्ण्य खेदमावहत् । तथा प्रोक्तम्- “अस्तु ! अहमस्मि माता - नाहं स्नेहं करोमि ?” - मयि ● बाबूरामजननी नितरां बाबूरामः सगर्वमुवाच –“न, त्वमपि मयि तथा न स्निह्यसि ।” बाबूरामस्य जननी मौनमाश्रित तस्या आश्चर्यमभवत् यन्मम पुत्रे कोऽपि मत्तोऽपि अधिकं प्रेम कर्तुमर्हति ? यथार्थतः श्रीठाकुरस्य