पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः श्रीठाकुरस्याज्ञां ग्रहीतुमगच्छत् । श्रीठाकुरेण आग्रहः कृतः, उक्तं च- "वद, शीघ्रमागमिष्यसि ?” अतोऽसौ स्वीकृतिं दत्वा कलिकत्ता- मागतः । इतश्च परन्तु स नैजं मनस्तद् घटनाप्रभावान्मुक्तं कर्तुं नाशक्नोत् । स च दृढसंकल्पो भूत्वा तद्रहस्यपरिज्ञानाय कटिवद्धो बभूव । श्रीरामकृष्णचिन्ता तदीयसमस्तसत्तायामधिकार कृतवती । तस्याद्भुत- पुरुषप्रवरस्य वार्ता यथा यथाऽसौ व्यचारयत्, तथा तथा तत्सर्वं दिनस्वप्नसदृशं प्रतीयमानमभूत् । किमपि ज्ञातुं नाशक्नोत् । एवं चिन्ताकुलचित्तः प्रायश एकसप्ताहानन्तरं पुनरसौ दक्षिणेश्वरमगच्छत । श्रीठाकुरेणापि तस्य सबहुमानं स्वागतं कृतम् । तस्मिन् दिवसे श्रीठाकुर- स्तमादाय यदुमल्लिकस्य समीपस्थांद्याने भ्रमणायागच्छत् । कांश्चन क्षणान् इतरततो भ्रमणं विधाय द्वावपि प्रकोष्ठे समागत्योपविष्टौ । दर्श दर्शमेव श्रीठाकुरो भावान्तरं प्राप्तः समाधिस्थो बभूव । नरेन्द्रः सर्वं सधैर्यं व्यलोकयत् । श्रीठाकुर एकवारं नेत्रे समुन्मील्या- पश्यत् पूर्ववत् सहसा तमस्पृशच्च । विशेषसावधानोऽपि नरेन्द्रनाथस्तेन शक्तिपूर्णस्पर्शेन पूर्णतयाऽभिभूतो बभूव । अनेकप्रयत्नानुष्ठानेऽपि स आत्मानं सम्यक् रक्षितुं नाशक्नोत् । तदीयं बाह्यज्ञानं व्यलुम्पत् । स चं कियत्कालं यावत् तदवस्थायामासीत्, अथवा तदीयो बोधः कथं प्रत्यावर्त्तितः, एतस्य किञ्चिदपि परिज्ञानं तस्य नासीत् । परन्तु बाह्याव- बोधे समुत्पन्ने सोऽपश्यत्- श्रीरामकृष्णो मधुरस्मितेन सह तस्योरसि सस्नेहं हस्तं भ्रमयति । स च चिन्तां महतीं प्रपन्नो नितरामसहाय- मात्मानम बुध्यत । - ४४ तस्य दिवसस्य घटनासम्बन्धे श्रीरामकृष्णदेवः परवर्त्तिनि काले जगाद – “बाह्यज्ञाने विलुप्ते तदानीमहं नरेन्द्रमनेकवृत्तान्तमपृच्छम्- कोऽसौ, कुतः समागतः, कथमुत्पन्नः, संसारे च कियन्ति दिनानि स्थास्यति इत्यादि । तेनापि तदवस्थायामेव निजान्तरतम प्रदेशप्रविष्टेन ,