पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः तत्प्रत्यक्षदर्शनं विलुप्तमभूत् । अह प्रकृतिस्थोऽभवम् । गृहस्वाभ्यन्तर- बाह्यस्थानि वस्तूनि यथापूर्वमवस्थितानि दृष्टानि ।..." ४३ चक्षुपोर्निमेषमात्रेणैव तादृशमुपातिष्ठत् | नरेन्द्रनाथ आश्चर्यचकितो बभूव । तस्य मानसे युगान्तरमुपतस्थौ । किमियं सम्मोहिनी विद्या ? इन्द्रजालं वा किंवाऽन्यत् किमपि । किन्तु नरेन्द्रनाथस्य मनस्तत्स्वीकर्तुं नैच्छत् । तदीयं मानसमेतावद् दुर्बलं नास्ति । स च प्रवलेच्छाशक्ति- सम्पन्नो वर्तते । क्षणेनैव तं प्रभाववशगं कर्तुं कथं सम्भवम् । स तु तमर्धविक्षिप्तं कथयति । कुत्राप्येकस्मिन् सिद्धान्ते गन्तव्यमेव | मनसि विक्षोभः समुत्पन्नः | महाकवेर्वार्ता स्मृतिपथमागता – “स्वर्गे भुवि च तादृश. न्यनेकतत्त्वानि सन्ति, येवां रहस्यभेदनं मानवबुद्धिविरचित- दर्शनशास्त्राणि न कर्तुं शक्नुवन्ति ।" - - परन्तु तेन दृढ़संकल्पोऽयं कृतः– यदहमेतस्य हस्तयोः क्रीडनिका न भविष्यामि । साधुरीत्या सावधानेन भवितव्यम् । आत्मानं प्रकृतिस्थं स्थापयिष्यामि, संरक्षितं च करिष्यामि । तेन श्रीरामकृष्णविरुद्धा युद्ध- घोषणेव कृता । पुनस्तेन चिन्तितम् - यः पुरुषः क्षणेन मादृश-सुदृढेच्छा- शक्तिसम्पन्नं मानसं कमपिण्डमिव त्रोटयितुं स्फोटयितुं च पारयति, स साधारणमानवो नारित ! स चासाधारणशक्तिसम्पन्न एव ! तस्य आत्मविश्वासे चित्तदृढत्वे च एकः प्रचण्ड आघातो जातः । एतस्या घटनाया अनन्तरं श्रीठाकुर: पूर्णतया भिन्नो व्यक्तिविशेषो जातः । एवंप्रकारेण नरेन्द्रं भोजयितुं सम्मानयितुं प्रवृत्तः । विविध भावेनासी स्नेहं प्रादर्शयत् । एतेन तृप्तिं नाध्यगच्छत् । इतः सन्ध्या संवृत्ता | नरेन्द्रेण कलिकत्तायां प्रत्यागन्तव्यमास्ते । अतोऽसौ समनन्तरं काशीपुरोधाने नरेन्द्रनाथाय तेन प्रदत्तम् । कालोऽप्येको महान् वस्तुविशेषः। कालस्योपेक्षा नैव कर्तुं शक्यते । एतस्य शुभमुहूर्तस्य प्रतीक्षा- व्यतिरिक्तः कश्चिदन्य उपायो नास्ति ।