पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः ते प्रश्नाः सत्यं सत्यं समाहिताः । तस्य सम्बन्धे मया यत् किमपि दृष्ट विचारितं च तत्सर्व तस्य तात्कालिकेनोत्तरेण सत्यं प्रमाणितमभूत् । r अयं सर्वो गुप्तो वृत्तान्तः । तया वार्तया मया परिज्ञातम्– “नरेन्द्रो यदा ज्ञास्यति यदयं कोऽस्ति, तदानीमसौ लोकेऽत्र न स्थास्यति, दृढसंकल्प- साहाय्येन योगवलं द्वारीकृत्य च स्वशरीरं तदैव स परित्यक्ष्यति । नरेन्द्रो ध्यानसिद्धो महापुरुष आस्ते ।" प्राक् श्रीरामकृष्णदेवेन दृष्ट यत् ज्योतिर्मण्डलस्यैक ऋषिरेव नरेन्द्र- रूपेण जन्म जग्राह । इदानीं तस्य दर्शनस्य सत्यतायाः प्रमाणर्माधगत्य निश्चिन्त इवासो बभूव । परन्तु इतो नरेन्द्रस्याभिमाने प्रचण्ड आघातो- ऽभवत् । देवशक्तेर भिमुखमसौ नितरामसहायः शिशरेवास्ति । अयमुन्मत्त इति कथनमुचितं नास्ति – अयमलौकिक शक्ति-सम्पन्नो देवमानवः । साधनां द्वारीकृत्य तेन या किलामानवीया शक्तिः समु- पार्जिता, तस्याः सम्मुखे मनुष्यस्य व्यक्तिता शक्तिश्च कियती तुच्छा वर्त्तते ? तस्य चिन्ताराज्ये भयंकर एको विप्लव उपातिष्ठत् । किन्तु कस्यापि वस्तुनस्तथ्य परीक्षणमन्तरेणैव ग्रहणं तस्य स्वभावविरुद्धमासीत् । अतोऽसौ जलाभ्यन्तरप्रवेशीव चिन्तासागरे न्यमज्जत्, श्रीरामकृष्ण एव तस्य परीक्षायाश्चिन्तायाश्च विषयो जातः । तद्ग्रहणात् पूर्व यथाशक्ति उत्तमरूपेण 'निकपोपले' तं परीक्षितुमियेष – विश्लेषकशा सम्यगवधारयितुमैच्छत् । श्रीरामकृष्णदेवस्यानुपमस्त्यागः, तपः, प्रेम, पवित्रता, सारल्यम्, ईश्वरपरायणत्वं, भागवतजीवनं चेति सर्व नरेन्द्रस्य चिन्ताविषयीवभूव । तेनावधारितं यत् श्रीरामकृष्णो विशेषशक्तिशाली महापुरुषो वर्त्तते। धर्मस्येतिहासे येषां देवमानवानामुल्लेखो लभ्यते, तैः सह सोऽप्येकासने उपवेष्ट मर्हति ।... - १ श्रीरामकृष्णस्य सन्निधाने तेन स्वीयं गमनागमनं न निरुद्धम, प्रत्युत तदीयस्वेच्छाविरुद्धमिव तस्य गमागमौ प्रावर्धेताम् । स च श्रीरामकृष्णस्य नानाप्रकारेण परीक्षणं, तदीयकार्यजातस्य सूक्ष्मरूपेण