पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ १८८१ ईसवीयो दिसम्बरमासः । गङ्गाभिमुखद्वारेण सहचरै: सार्धं नरेन्द्रनाथः श्रीरामकृष्णगृहं प्रविष्टः । दैवानन्दितः श्रीठाकुरोऽ- भिमुखकुट्टिमविस्तारिते कटे नरेन्द्रमुपवेशनायादिदेश | अनन्तरं च गानं श्रावयितुमनुरुद्धो नरेन्द्रनाथोऽब्रवीद् यदसौ द्वे चत्वारि वा वंगीयगानानि गातुं जानाति । तेष्वेकं गातुमादिष्टः । ( १ ) मन चलो निज निकेतने । संसार विदेशे विदेशीर वेशे, भ्रमो कैनो अकारणे । विषय पञ्चक आर भूतगण सब तोर पर, केउ नय आपन | परप्र` मे कैनो होये अचेतन, भुलेछो आपन जने । साधुसंग नामे आछे पान्थधाम, श्रांत होले तथाय करिओ विश्राम । पथ-भ्रान्त होले सुधाइयो पथ, से पांथ-निवासिगणे ॥ जदि देखो पथे भयेरि आकार, प्राणपणे दियो दोहाई राजार से पथे राजार प्रबल प्रताप, शमन डरे जाँर शासने ॥ अर्थात् हे मनः ! ब्रज निज निकेतनम् । संसार-विदेशे विदेशीयवेशे भ्रमसि कथमकारणम् । विषयपंचकं भूतगणः कोऽपि नास्ति तव निजमयनम् । परप्रेम्णि कथमसि अचेतनम्, विरहयसि निजजनम् । साधुसंगनामारित पान्थधाम, श्रान्तः कुरु तत्र विश्रामम् ।