पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः पठनानन्तरमसौ डाक्टरो जातः । दक्षिणेश्वरस्य “प्रेमोन्मत्तं श्रीठाकुरं” प्रत्यसौ विशेषरूपेण अनुरक्तो बभूव | नरेन्द्रोऽपि रामचन्द्राय समधिकं प्रीणाति स्म, तं च 'रामभ्रातः !' इत्युक्त्वा समाह्वयत् । स्वकीयं हार्द तं न्यवेदयत् । एकदा विवाहप्रसङ्गेन स्वमानसिकीमशान्तिवार्ता तस्मै कथितवान् । तदीयां वार्त्तामाकर्ण्य रामचन्द्रदत्तः स्वरेण तमुवाच – “भ्रातः, यदि यथार्थतो धर्मलाभस्तव जीवनस्योद्द - शस्तदानों ब्राह्मसमाजादिस्थानेषु व्यर्थमटनं परित्यज्य दक्षिणेश्वरे परमहंसदेव सन्निधानं व्रज | " सुस्पष्ट स्नेहमयेन - तस्य सम्मति नरेन्द्रनाथ: स्वीचकार । पार्श्ववर्ती सुरेन्द्रनाथस्तमेकदा स्वीयशकट्या दक्षिणेश्वरे गन्तुमाजुहाव । द्विचैर्मिन्त्रैः सह नरेन्द्रः सुरेन्द्रनाथस्य शकट्या दक्षिणेश्वरमाजगाम | -*०*—