पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः अतो विनीतस्वरेण तेन स्वयमेव नरेन्द्रनाथ एकदा दक्षिणेश्वरे आग- मनाय निमन्त्रितः । शिष्टताया अनुरोधेन नरेन्द्रनाथेनापि स्वीकृतिः संप्रदत्ता | श्रीरामकृष्णो दक्षिणेश्वरं प्रत्याजगाम, नरेन्द्रनाथोऽपि स्वगृह प्रातिष्ठत । परीक्षा निकटवर्त्तिनी, सः अध्ययने निमग्नो दक्षिणेश्वरे गमनं विसस्मार। किन्तु श्रीरामकृष्णस्य दिनानि व्यतिगन्तुं नैच्छन् । प्रतिदिनमेवासौ तदागमनं प्रतीक्षमाणस्तस्थौ । नरेन्द्रनाथं द्रष्टुमिदानी- मसौ अतिव्याकुलोऽभवत् । परन्तु नास्ति कश्चिदुपाय: । अतो हृदयस्य गम्भीरमावेशं कथञ्चिन्निरुध्य तदीयमेलनप्रतीक्षायामतिव्याकुलतामनु- बभूव । तेन समयान्तरे प्रोक्तम् –“नरेन्द्रं द्रष्टु’ काले-काले मनस्येतादृशो वेदनाऽभवत् यदङ्गप्रोक्षणीमिव कश्चिद् बलेन हृदयं निष्पीडयति । 'अरे ! त्वमागच्छ, तव दर्शनमन्तरेण नाहं स्थातुं शक्नोमि'–एवं शब्दायमानोऽहमुच्चैररोदिषम् ।” ९ नरेन्द्रस्य परीक्षा समाप्तिमगात् । ततश्चासौ एकस्या अग्निपरीक्षायाः साम्मुख्यमानीतः । पित्रा एकस्य धनिकस्य कन्यया साकं तस्योवाहो निर्णीतः । कन्या चासीत् श्यामाङ्गी । अतोऽनेकैद्यवस्तुभिः सार्धं दशसहस्ररूप्यकाण्यपि प्राप्तव्यान्यभूवन् । प्रस्तावभिममाकर्ण्य नरेन्द्रनाथ विद्रोही बभूव । स विवाहं कथमपि कत्तु नैच्छत् । तस्य जीवने उच्चाकाङ्क्षा आसीत् । अभ्यन्तरे तेन महतः कर्त्तव्यस्य आह्वान- माकर्णितम् । विवाहमनुष्ठाय लौकिको महान् मानवो भवितुं, सर्वसाधारणवत् जीवनं यापयितुं च नासौ प्रस्तुतोऽभवत् तस्यैकमात्र- मिदमेवोत्तरम् – 'कथञ्चिदपि नाहं विवाहं करिष्यामि ।' नरेन्द्रनाथस्य वैराग्यप्रवणमानसे तीव्रा प्रतिक्रिया समुद्रपद्यत । स च ध्याने भजने च समधिकं व्याप्तः । ब्राह्मसमाजे च तस्य गमनागमनं नितरामवर्धत । , - श्रीरामकृष्णस्यान्तरङ्गभक्तो रामचन्द्रदत्तो नरेन्द्रनाथस्य दूरसम्पर्क- वान् सम्बन्धी अभूत् । स च नरेन्द्र नाथस्य गृह एव प्रतिपालितोऽभवत् ।