३९ युगाचार्य - विवेकानन्दः पथिभ्रांतः पृच्छतु पंथानम् गत्वा पांथनिवासिगणम् । यदि पश्यसि भयस्य कारणम्, प्राणपणैः स्मर करुणागारम् । तत्र पथि तस्य प्रबलप्रतापः, शमनोऽपि समयं स्मरति यस्य शासनम् । गानमिदमसौ मनसा प्राणैश्च समाधिस्थ इव भूत्वा जगौ । सुम- धुर स्वरझडकारेण समस्तमपि गृहं गुञ्जितमभूत् । श्रीरामकृष्णदेवो नैज- मात्मनं निरोधु नाशक़ोत् । 'अहा ! अहा !' इत्युच्चारयन् सहसा समाधिस्थोऽभूत् । तदनन्तरं तदनुरोधात् द्वितीयं गानमगायत्- क ( २ ) जावे कि दिन आमार बिफले चलिये, आछि नाथ दिवानिशि, तव आशापथ निरखिये । तुमि त्रिभुवननाथ, आमि भिखारी अनाथ । कैमने बलिचो तोमाय एशो हे मम हृदये | हृदयकुटीरद्वार खुले राखि अनिबार । कृपा कोरे एकबार एशे कि जुड़ाबे हिये ।। अर्थात् गमिष्यति किं मम दिनं विफलम्, करोमि नाथ दिवानिशं, त आशापथ-विलोकनम् । त्वमसि त्रिभुवननाथः, भिक्षकोऽस्म्यहमनाथः । किमिव कथयामि त्वाम्, एहि मम हृदयम् । हृदय-कुटीर-द्वारम् अपिहितं मेऽनिवारम् । कुरु कृपामेकवारम्, एत्य शमय हृदयमशान्तम् || तदनन्तरमेका अचिन्तनीया घटना घटिता। नरेन्द्रस्य सर्वे विचारा वैपरीत्यं गताः । सहसैव श्रोठाकुरो नरेन्द्रस्य करं गृहीत्वा उत्तरस्यां दिशि स्थूलवस्त्रपरिवेष्टित उपप्रकोष्ठे तं समानीया श्रणि विमुञ्चन्नुवाच - "एतावद्दिवसानन्तरमागतोऽसि ? अहं त्वां प्रतीक्ष
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४९
दिखावट