पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः तहानी मे वैकेना भावनीयोपायेन श्रीरामकृष्णदेवेन साकं तस्य सम्मेलनं बभूव । ३३ नरेन्द्रनाथेन केशवचन्द्रस्य भाषणे उपासनादौ च श्रीरामकृष्णस्य नाम समाकर्णितमासीत् । केशवपरिचालितपत्रिकादिषु च तस्य वाणी उपदेशाश्च पठिता अभूवन् । तस्मिन्नेव काले स तन्मेलनहेतवे कथमिव प्रस्तुतो जात इति नास्माभिर्ज्ञायते । श्रीरामकृष्णस्य नरेन्द्रनाथस्य च मेलनं प्राच्यप्रतीच्ययोः, प्राचीननवीनयोः, समुद्रसरितोः, स्वर्गमर्त्ययोः, विश्वभारतयोश्च मेलनमिवासोदित्यग्रे वयं द्रक्ष्यामः ।. आसीत् । तेन नरेन्द्रनाथस्यावस्था तदानीमष्टादशवर्षदेशीया प्राच्यप्रतीच्यदर्शनानां तुलनात्मकमालोचनं समनुष्ठितम् । संशयवादो नास्तिकवादञ्च सम्यक् पर्यचीयेताम् । जागतिका अनेकाः समस्यास्तस्य चिन्ताविपयीभूता बभूवुः । यद्यप्यसौ ऐश्वर्यस्य क्रोडे लालितपालितः, दर्शन श्रवणलेखनपठनगानवाद नभाषणदानेष्वद्वितीय आसीत्, तथापि निर्धनदुःखिनां कृते तदीयं हृदयमरोदीत् । दयामयस्य भगवतो राज्ये एतावद् दुःखं कथम् ? एतस्य प्रश्नस्य समाधानं तेन किमपि न प्राप्तम् । संसारे एतादृग् वैषम्यं, धनिकदरिद्रयोरेतादृशं पर्वतवत् पार्थक्यं केन निर्मितम् ? सर्वे किल भगवतः सन्तानाः, किन्तु ब्राह्मणचाण्डालयोरेता- हगदुर्लङध्यान्तरालस्य सृष्टि: कथमभूत् ? अन्याश्चापि शतशश्चिन्ता- स्तदीयं तरुणमानसं व्याकुलीचक्रः । इतश्च शिशिरधं तकुसुमवत् तस्य जीवनं पवित्रम् | कमलदलतुल्ये तदीये नयने । गम्भीरे ध्याने निमग्नोऽसौ बह्वी रात्रीर्व्यत्यगमयत् । रात्रि पर्यन्तं ध्यानानुष्ठानेन तदीयं सुन्दरं नयनयुगलं रक्ताभमभवत् । CU यो वै भूमा तत्सुखं, नाल्पे सुखमस्ति । भूमैव सुखं, भूमा त्वेव विजिज्ञासितव्यः ||

  • छान्दोग्योपनिषद् ७।२३।१