पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः ३२ नरेन्द्रनाथस्य मनोराज्ये प्रचण्डो झञ्झावातः प्राचरत् । महर्षे- वर्तिया तस्य मनोन शान्तिं जगाम । सहैव भारतीया अनेकाः समस्यास्तस्य चिन्ताविषयीभूता अभूवन् । जातिगताधिकारस्य वैषम्यस्य चासौ पक्षपाती नासीत् । हिन्दुधर्मस्य संकीर्णतामपसार्य जातीयजीवनस्योज्जीवनमनुष्ठातुं तस्यैका परिकल्पना बभूव । ब्राह्म- समाजस्य प्रभावोऽपि तस्य चिन्तासमुद्रे महान्तमावर्त्तमुदपादयत् । स्वामिनो विवेकानन्दस्य स्वरूपेणासौ समाजनियमस्य यान् संस्कारा- नकार्षीत्, ते प्रथमजीवन एव तस्य हृदयेऽधिकारं कुर्वन्तस्तदीय- जीवनस्याङ्गभूता बभूवुः । विभिन्नचिन्तानां घातप्रतिघा तैरान्तरिकैर्द्वन्द्वश्च तदीयं जीवनं जर्जरितमभूत् । इतश्च एफ० ए० परीक्षां दातु स प्रस्तुतोऽभवत् । तेनादर्शसंन्यासिना स्वीयमुक्तये न किमप्यनुष्ठितम् । तेन पत्नीं पुत्रं राजसिंहासनं चेत्यादि सर्वं परित्यज्य मानवमात्रविमुक्तेः प्रशस्तपथाविष्काराय कठोर- साधनाऽनुष्ठिता । तं महान्तमात्मानं प्रति स्वामिनो हृदयेऽगाधश्रद्धा बभूव । बुद्धदेवसम्बन्धे तेन प्रतिपादितम् – “बुद्धहृदयाभिमुखं दृष्टिं निक्षिप । किम्बहुना एकस्याति धीयसः छागशिशोः प्राणरक्षायै स स्वीयं जीवनं दातु प्रस्तुत आसीत्। बहुजनहिताय, बहुजनसुखाय — जीवनदानवार्ता, किमन्यत् कथयामि पश्य, कीदृशी तस्य विशालप्राणता कीदृशी चासीमकरुणा । सर्वेभ्यो विशेष- तयाऽज्ञानिभ्यो दरिद्रेभ्यश्चापूर्वा समवेदनैव तथागतस्य सर्वाभ्यर्हितं महत्त्वम् । वेदान्तनीतिं कार्यरूपेण परिणमयितुमेव बुद्धदेवस्याविर्भावः । तेन सम्पूर्णा अपि विशेषसुविधाश्चूर्णांकृताः । आभिजात्यस्य सौविध्यवादस्य च ध्वंसमनुष्ठाय साम्यवादः प्रचारितः । भगवान् बुद्धदेवः सर्वश्रेष्ठ मानवोऽपूर्वश्च संघस्रष्टा । संसारे यत्र यत्र कश्चिदपि नीतिरश्मिः परिदृश्यते स चैतस्य महामानवस्य ज्ञान- विकीर्णो वर्त्तते । "