पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६३ लोकहितकरसुसाधितकृत्यं दुःखनिषूदनविगतद्वन्द्वं दीनजनगणक्लेशविनाशं कामविवर्जितसंचितसत्यम् । वन्दे वीरविवेकानन्दम् ||७|| पतितोत्तारणनीचसनाथम् । जीवनदायकतत्त्वालापं स्वामिविवेकानन्दस्तोत्राणि वन्दे वीरविवेकानन्दम् ||८|| शिवमतिपूजा भूतग सेवा सन्ततभक्त्या मानवकार्या । इति नवभावं जगति लपन्तं वन्दे वैराग्यविवेको भय साध्यं वीरविवेकानन्दम् ||६|| मायापाशच्छेदनकार्यम् । करतलगतसुलभं खलु तत्त्वं स्तौमि विवेकानन्दनसिद्धम् ॥१०॥ गुरुर्बोधिव्याप्तात्समुपगमनेनैव यमिनां वरेण्यः सम्प्राप्तः श्रुतिगतपदार्थ सुगहनम् । प्रसंख्यानाध्यासप्रतिपदसकृत्तत्त्वविदसौ विवेकानन्दो नः शरणमिह भूयात्तनुभृताम् ॥ ११ ॥ इति ब्रह्मचारिमेधाचैतन्यविरचितं श्री विवेकानन्दस्तोत्रं समाप्तम् ।