पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४१ स्वामिविवेकानन्दोपदेशद्विशती ( जनताजनार्दनः ) त्वत्सम्मुखो विविधरूपधरो य ईश- स्तं सन्त्यजन्तु कुह मार्गयसे वृथैव । यः स्नेहतत्परमना: खलु जीववृन्दे जानाति सेवितुमसावनिशं परेशम् ||२०१॥ ( स्वामिजीवनलक्ष्यम् ) जीर्णं वस्त्रमिव त्यजामि सुखतस्तूर्ण स्वकीयं वपुः पूर्ण कर्तुमथापि कार्यमनिशं लोके यतिष्ये धुवम् । यावदुब्रह्ममयं समग्रमिति न ज्ञानं जगत्यां जनैः तावत्प्रेरयितु प्रयत्नपरता मन्ये मदीयं तपः ॥ २०२|| ( समर्पणम् ) स्वामिशब्दै र्विरच्येदं नव्यं श्लोकशतद्वयम् । त्वदीयं वस्तु भगवन् ! तुभ्यमेव समर्पये ॥२०३ ॥ इति साहित्याचार्य-एम्० ए०-भण्डारकरोपाह्न - त्र्यम्बकशर्मणा विरचिता श्रीस्वामिविवेकानन्दोपदेशद्विशती समाप्ता ।