पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिविवेकानन्दोपदेशद्विशती अवतारः स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥१॥ रामकृष्णावतारे तु स्थितं सर्वमनन्तकम् | अनन्तप्रेम, भक्तिश्चानन्ता, ज्ञानमनन्तकम् ॥ २॥ सहस्रयुगपर्यन्तं यल्लब्धं विश्वहिन्दुभिः । रामकृष्णेन तल्लब्धमेकस्मिन्नव जन्मनि ॥३॥ सर्वजातीयवेदानां रामकृष्णस्य जीवनम् । विद्यते भाष्यरूपं तद्वेदार्थानां प्रकाशने ॥४॥ कस्यापि देशस्य गतेतिहासे न तादृशो धर्मसमन्वयोऽस्ति । प्रत्यक्षमीशः खल रामकृष्णो लघुर्मतोऽस्य यस्मिन्दिनेऽसौ नरजन्म लेभे त्ववतारवादः ॥५॥ WST तस्माद्दिनात्सत्ययुगं प्रवृत्तम् । भेदा विवादास्त्वखिला विनष्टाः अस्पृश्यवर्गः हिन्दुख्रिस्तमोहम्मदीय- बौद्धादीनां भेदभावः समन्तात् । प्रियतामुपेतः ||६|| लुप्तो