पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्द स्वामिपादः वासरोगे शारीरविषयक मौदासीन्यमव- ग्राममाजगाम । ढाकावस्थानसमये असहनीयकष्टमन्वभवत् । एकदा लम्ब्यावदत् यत् "भवतु यदि मरणमपि संजायेत, तेन वा किं एति, याति वा ? यदेव वस्तु अयच्छम्, विचारजगते तत् सार्द्धसहस्र- वर्षाणामाहार्यम् ।” २८३ ढाका-प्रदेशात् स्वामिपादस्तु चट्टग्रामं निकपा सुप्रसिद्ध चन्द्रनाथ - तीर्थमालोक्य आसामप्रदेशान्तर्गत-गोआलपाडां गौहाटीं च परिभ्रम्य सुमहातीर्थं "कामाख्या "मेव द्रष्टुमगच्छत् । तादृशमस्वास्थ्यमनु- भवन्नपि स स्वामिपादस्तत्रत्यानामधिवासिनां विशेषाग्रहेण गौहाटी- नगर्या त्रीण्येव भाषणानि दत्तवान् | गौहाटीनगरे कामाख्यायां च तस्य शरीरमतीवास्वस्थमभवत् । बहुमूत्ररोगेण साईं श्वासरोगश्च अदृश्यत । केचन च “शिलाङ” नामक-गिरौ गन्तुमुपदिदिशुः । तत एव स स्वामिपादः शिलाङ् नासकगिरिमियाय | सुशीतल रमणीये पार्वतस्थाने समागत्य स नितराम् आनन्दितो जातः । आसामप्रदेशीय चीफ कमिशनर “सर-हेनरी-कटन्” नामको महाशयः स्वामिपादस्यास्वास्थ्य-संवादं विज्ञाय तस्य सन्दर्शनमेव न व्यधात् अपि तु तत्रत्य-प्रधान- चिकित्सकस्य (सिविलसर्जनस्य ) तत्त्वावधाने तस्य चिकित्साव्यवस्थामकरोत् । स्वयमपि दिवापूर्वाहे सायं च गत्वा चिकित्सातत्त्वावधानं व्यधात् । बहून्यपि संलापा- लोचनानि च अभवन् । फलतः स एव कटनसाहेबः स्वामिपादं प्रति विशेषतः समाकृष्टो जातः, तेनानुरुद्धः खामिपाद: शारीरिका- स्वस्थतायां सत्यामपि "भारतीया सभ्यता तस्या आदर्शश्च" विषय- मिममालम्व्य सुगभीर-विचार-पूर्णामेकां मनोरमां वक्तृतां कृत्वा सर्वान् मोहमुग्धानिव अजनयत् । स कटनुसाहेब विषयमाह यत्- "इममेव जनमेकमपश्यम्, यः खलु भारतीयं अभावाभियोगं तत्त्वतो ज्ञात्वा अस्य देशस्य यथार्थं कल्याणमेव कामयते । ” ,