पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः सविनयं तत्रभवत्स्वामिपाद निर्देशं शिरसि समाधाय तत्पालनाय सम्मतिं व्यज्ञापयत् । स्वामिपादस्तु जनवरीमासस्य चतुर्विंशतितमे दिवसे ( १६०१ ) वेलुडमठं प्रत्याववृते । २८२ मठं प्रत्यावृत्य स संघटनकार्यमारब्धवान् | इतो मध्ये कति वा नवीन- ब्रह्मचारिणो मठमेत्य कार्यनिरता जाताः । स हि नियमित-भावेन दैहिकीं व्यायामचर्चामन्वहं प्रवर्त्तयामास । शास्त्रादिपाठेषु अत्यधिका- ग्रहातिशयं प्रचारयामास | ध्यानभजनादिकं पूर्णोत्साहन प्रववृते । अतिप्रत्यूष संकेत घंटाया निनादोऽभवत् । सर्वेऽपि ध्यानगृहं प्रविश्य ध्यानमग्ना भवितुमचेष्टन्त । शारीरिक अस्वस्थतां विना केनापि कारणेन निर्दिष्टकाले यदि कोऽपि ध्यानाय ध्यानगृहं न विशति तर्हि, तत्रैव दिने तस्मै आहारो न दीयते स्म, तस्य मधुकरी भिक्षा- व्यवस्था आसीत् । किं बहुना, प्रवीणसंन्यासिनां कृतेऽांप तस्य विधेः परिवर्त्तनं न भूतम् । अहो ! कीदृशी कठिना नीतिः । किन्तु स्वामि- पादस्तु तत् प्रवर्त्तितमकरोत् । नेतुरादेशं सर्वेऽपि मेनिरे ।... इतः पूर्ववंगीया भक्ताः स्वामिपादं तत्र नेतुं नानारूपेण अचेष्टन्त | तेपामाग्रहातिशय्यमालोक्य स मार्चरय अष्टादशदिने कतिपयान् संन्यासिनः समभिव्याहृत्य ढाका-नगरमगच्छत् । विपुलतरं सम्वर्द्धनं तत्राभवत् । तत्रत्यानां जनानाम् आन्तरिको श्रद्धा स्वामि-महोदयं विमुग्धमकरोत् । तत्र स भाषणद्वयमेव दत्तवान् । अपि च बहवो लोका तेन सह संलापं कृत्वा मानवेषु श्रीभगवदर्शनस्य नवीनामनु- प्रेरणामुपलभ्य धन्या अभवन् । कस्मिंश्चित् विशिष्टदिने, स खलु “लाङ्गलबन्ध” नामकस्थान- मुपेत्य सहस्रैर्यात्रिभिः साकं ब्रह्मपुत्र नदे सस्तौ । इयमेव किंवदन्ती यत् परशुरामस्तत्रैव तीर्थे समवगाह्य मातृवधजनितात् पापान्मुक्तो- ऽभवत् । ढाका नगरात् स श्रीश्रीरामकृष्णदेवस्य गृहस्थ-भक्तस्य प्रख्यात नाम्नो नागमहाशयस्य जन्मभूमि नारायणगंजं निकपा–“देवोभोग”-