युगाचार्य-विवेकानन्दः “कियदपि कुतो न भवेत्, भो, अहं तु अधुनाऽपि तं पूर्वकालीनं बालकं विना नान्योऽस्मि कोऽपि यः दक्षिणेश्वरे पञ्चवट्या अधः श्रीरामकृष्णस्यापूर्वी वाणीमाकर्ण्य अवाग् भूत्वाऽश्रोष्यम् तथा , भावविह्वलोऽभविष्यम् । स बालभाव एव मम नैसर्गिक स्वभावः अस्ति - अन्यत् कार्यनिर्वहणं परोपकारादिकं यत् किमप्यक्रियत तत् तस्यैव स्वभावस्योपरि कियत्कालस्य कृते आरोपितमेकमुपाधिमात्र - - मासीत् । हा हन्त ! इदानीं पुनस्तां वाण शृणोमि - सः परिचितपूर्वः कण्ठस्वरः यः महृदयान्तस्तलं यावत् पुलकितं तनुते । आयामि प्रभो ! आयामि । ” २७६ "अहह ! साम्प्रतमहं यथार्थत आगच्छामि । निजसमक्षमपारं निर्वाणसमूद्रं विलोकयन् अस्मि । अहं यद् अजाये तेनाहं प्रसन्नोऽस्मि । पुनर्यद् निर्वाणस्य शान्तिसमुद्रे निमज्जितु व्रजामि तस्मिन्नप्यहं दृष्टोऽस्मि ।... “शिक्षादाता, गुरुः, नेता, आचार्य: विवेकानन्दः प्राचलत्, निपतितोऽस्ति केवलं स पूर्व: बालकः; प्रभोः स चिरशिष्यः, चिर- पदाश्रितो दासः । अहं सर्वेषु विषयेषु विरक्तो भत्वा तस्येच्छया अनायासं तरन् चलामि । आगच्छामि मातः ! आगच्छामि, त्वदीये स्नेहपूर्ण क्षसि धृत्वा यत्र त्वं मां नयसि तस्मिन् अशब्दे, अस्पर्शे, अज्ञातेऽद्भुतराज्ये । अभिनेतु: भावं साकल्येन परित्यज्य केवलं द्रष्टा तथा साक्षीव मज्जने नास्ति मे विचिकित्सा ।... , परितः सज्जिताः पाञ्चालिका: आलेख्याच दृष्ट्वा लोकानां मनसि यया विधया शान्तिभङ्गकारणं नोपतिष्ठते तथा अस्यामवस्थायां समस्तः संसार : तात्त्विकरूपेण तथैव प्रतीयते, ममान्तःकरणे शान्ते - विरामो न भवति । पुनस्तदेवाह्वानम् ! आगच्छामि प्रभो ! आगच्छामि ।..."
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८६
दिखावट