युगाचार्य - विवेकानन्दः निमग्नोऽवर्तत । मुसलमानानां अत्याचारात् तद् देवीमन्दिरं प्रागेव विध्वस्तमास्त । एकस्य कुण्डस्याभ्यन्तरे देव्या: पूजा समपद्यत । २७० , स तत्र प्रतिदिनं अर्चनं तथा हवनमकरोत् एवं तण्डुलवादा- मादिभिः सह चत्वारिंशत्प्रस्थमितदुग्धस्य पायसं प्रपाच्य देव्यै समार्पयत् । अर्चकब्राह्मणस्य बालिकां 'कुमारी' रूपेण सम्पूज्य जप- मालां हस्ते समादाय चिराय ध्वंसावशेषं विलोक्य स विषण्णमनसा एकदा चिन्तयन्नासीत् जपमग्नोऽवर्तत । देवीमन्दिरस्य अहं यदि अत्राभविष्यम् तदा नूनं प्राणान् दत्त्वापि मातरमरक्षिष्यम् । सहैव दैवी वाणी बभूव – “त्वं मां रक्षसि ? अथवाऽहं त्वां रक्षामि ? विधर्माणो यदि मन्दिरस्य ध्वंसं कुर्युः तथा मूर्ति कलुपितां विदध्युश्चेत् तत्र तव किमस्ति ? वत्स ! अहमिच्छेयं चेत् अत्रास्मिन्नेव क्षणे सप्ततलं सुवर्णमन्दिरं निर्मातुं शक्नुयाम् ।” दैववाणीमाकर्ण्य स्वामी स्तब्धो बभूव । द्वितीये क्षण एव पटः परिवर्तितो जातः । हृदयकन्दरो दिव्यालोकेनोदभासत । सोऽन्तर्बहिश्च तस्या आद्याशक्तेः स्पन्दन- मन्वभवत् । अस्मिन् ब्रह्माण्डे मातैव एकमात्रं कर्त्री कारयित्री विश्वस्य सर्जनपालन-संहार कारिणी अस्ति । स तावत् एकं क्षुद्रं यन्त्रमात्र- मस्ति - मातुरंके एकः लघीयान् बालकः !! " युगाचार्यः वाग्मी, कर्मठः, नेता, गुरुः, जनसेवकः, देशप्रेमिको विवेकानन्दो जगज्जनन्या विराट्-सत्तायां स्वात्मानं विलीनं वितेने । स मातृगतप्राणः शिशुरभूत् । मुखे केवलं 'मातः मातः शब्द आसीत् । तस्मिन् निजेच्छा काऽपि नावशिष्टा-सर्व मातुरिच्छायां निर्भरं वर्तते ।... सप्ताहानन्तरं क्षीरभवानीतः पररावृत्य यदा स स्वशिष्याभिः सम- गच्छत तदा तस्येदं परिवर्तनं दृष्ट्वा सर्वे विस्मयमुग्धा बभूवुः । मातृ- भावेन स सर्वेषामन्तराणि पर्यपूरयत् ।
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८०
दिखावट