युगाचार्य- विवेकानन्दः देहरादूने, सहरानपुरे, दिल्ल्यां, अलवरे, जयपुरे तथा खेतडीराज्ये पुनर्जयपुरे एमजमेरे तथा खण्डवादिस्थानेषु पर्यटन्स १८६८ ई० जानवरीमासमध्ये भग्नं स्वास्थ्यमादाय कलिकत्तां परावर्तत । समग्रगुजराते तथा बम्बई-प्रान्ते पुनः पुनरामन्त्रणेऽपि शरीरास्वास्थ्यात् तेषु स्थानेषु गन्तुं नाशकत् । २६३ प्रायेण मासपञ्चकं यावत् स्वामी उत्तरभारतस्य विभिन्नस्थानेषु भ्रमणमकार्षीत् । सर्वत्र तेन भाषणानि देयान्यभवन्, आंधिक्येन हिन्दी- भाषायाम् । लघुलिपिकै: असंरक्षितत्वात् अनेकानि भाषणान्यलुप्यन् । धर्मालोचना कथोपकथनम् एवं प्रश्नोत्तरक्रमोऽपि तस्य प्रचाराङ्गा- न्यासन् । अनेनैव क्रमेण शिक्षितानां उच्चपदस्थानां तथा जनसाधा- रणादि- सर्वश्रेणीकानां अन्तःस्पर्श कर्तुं तेनावसराः प्राप्ताः । एतस्य फलमपि व्यापकमभूत् । स निजामृतमयभावधारया सहस्रशो जनानां हृदयानि अस्नापयत् । , स्वामिनः कार्य मानवात्मानमादाय प्रवृत्तम्, न तु राष्ट्राणि । मनुष्येषु भगवान् नूनं शृङ्खलया सन्दानित इव | तन्मोचनचेष्टामेव स सर्वत्र चकार । स्वामिनो वाणी देवत्वस्य वाणी अभूत् । तेनाभिहितम् — “स्वयं देवता सम्पद्यस्व तथा अन्येषां देवत्वेनोन्नतौ सहायतां प्रदेहि । " पुनः स एव स्वरः नरनारायणयोः सेवाया आह्वानमध्येऽपि झंकृतः बभूव । समस्ता जगद्वासिनः स्वामिविवेकानन्दं येन भावेना- गृह्णन् अस्य प्रमाणं तेषां स्वप्रणोदित- विवेकानन्दशताब्द्या जयन्त्युत्सव- सन्नाह माध्यमेन प्राप्यते । आङ्गलभाषातिरिक्तासु बङ्गला-उरिया - हिन्दी- मराठी-गुजरांती-तामिल तेलगू मलयालम्-प्रभृतिषु सर्वासु प्रधानभाषासु स्वामिनः सर्वासां वाणीनां रचनावलीनां च प्रकाशनं सम्पद्यमानमस्ति । केवलं बंगलाभाषायामेव पञ्चविंशति- सहस्र-प्रन्थकदम्बकेषु ( प्रतिग्रंथकदम्बकं दश ग्रंथा: ) सार्धलक्षद्वय ग्रंथाः प्रकाश्यन्ते । भारतस्य प्रायः
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७३
दिखावट